________________
चा. दी.
[ ૮૭
2IEASTEREORIGISISISAX
[ यावत्तणानि ] संस्तरेत् , संस्तीर्य च तृणानि यदपरं कुर्यात्तदाह--'एत्थ वि समए' अत्रापि समये--अवसरे न केवलमन्यत्रानुज्ञाप्य संस्तारकमारुह्य सिद्धसमक्षं स्वत एव पञ्चमहावतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याचष्टे, ततः पादपोपगमनाय कायं च-शरीरं प्रत्याचक्षीत, तद्योगं च-आकुश्चनप्रसारणोन्मेषनिमेषादिकं 'इरियं च'त्ति इरणमीर्या तां च सूक्ष्मां कायवागतां [मनोगतां] वाऽप्रशस्तां प्रत्याचक्षीत ।। तच्च सत्यं सत्यवादीत्याद्यनन्तरोद्देशकवन्नेयं, ब्रवीमीति पूर्ववत् ॥२२३॥
॥ श्रीविमोक्षाध्ययने सप्तमोद्देशकप्रदीपिका समाप्ता ॥
SESSHOSHOSHGACHGESIG
IP४२०॥