________________
भाचा.
एब-
Rઢાક
पदी.
यस्य भिक्षोरेवं भवति, अहं च खल्वन्येभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च नो स्वादयिष्यामीति द्वितीयः २। अहं च खल्वन्येभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च स्वादयिष्यामीति तृतीयः३।
अहमन्येभ्यो भिक्षुभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च नो स्वादयिष्यामीति चतुर्थः ४ । इत्येवं चतुर्णामभिग्रहाणामन्यतरमभिग्रहं गृहणीयात् , कश्चिदाद्यानां त्रयाणां भङ्गाना मेकप देनैवाभिग्रहं गृहणीयादिति दर्शयितुमाह-'अहं च खलु'त्ति यस्य भिक्षोरेवम्भूतोऽभिग्रहो भवति, अहं खलु तेन यथाऽतिरिक्तेन-आत्मपरिभोगाधिकेन यथैषणीयेन यत्तेषां प्रतिमाप्रतिपन्नानामेषणीयमुक्तं तद्यथा-पश्चसु भिक्षास्वग्रहः द्वयोरभिग्रहः, तथा 'अहापरिग्गहिएणं' यथापरिगृहीतेनात्मार्थ रवीकृतेनाशनादिना निर्जरामभिकाङ्क्षय साधर्मिकस्य वैयावृत्त्यं कुर्याम् कश्चिदेवम्भूतमभिग्रहं गृणाति । तथाऽपरं दर्शयितुमाह-'अहं वा वि' अहं वा पुनस्तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाशनेन ४ निर्जरामभिकाक्ष्य साधर्मिकैः क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि-अभिलषिष्यामि, यो वाऽन्यः साधर्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि, सुष्टु भवता कृतमेवम्भूतया वाचा, कायेन च प्रसन्नदृष्टिमुखेन मनसा चानुमोदयिष्यामि, किमित्येवं करोति ? 'लापवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया' गतार्थम् ॥ २२२ ॥
जस्स णं भिक्खुस्स एवं भवति 'से गिलामि च खलु अहं इमम्मि समए इमं
PORONARAAAAA-%
ब ला
४१८॥