________________
॥ श्रीविमोक्षाध्ययने सप्तमोद्देशकः ॥
उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमस्तस्य चायमभिसम्बन्धः - इहानन्तरोदेशके एकत्वभावनाभावितस्येङ्गितमरणमभिहितं, इह त्वेकत्व भावना प्रतिमाभिर्निष्पद्यते इति प्रतिमाः प्रतिपाद्यन्ते, अनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्-
जे भिक्खु अचेले पखिसि तस्स णं एवं भवति - चारनि अहं तणफ सं अधियासेत्तए, सीतासं अधियासेत्तए, तेउफासं अधिवासेत्तए, दंसमसगकासं अधियासेत्तए, एगतरे अण्णतरे विरूवरूवे फासे अधियासेत्तए, हिरिपडिच्छादणं चहं नो संचामि अधियासेत्तए । एवं से कप्पइ कडिबंधणं धारितएं (सू. २२०)
'जे भिक्खू' त्ति यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रह विशेषाद वेलो- दिग्वासाः पर्युषितः संयमे व्यवस्थितः, तस्य भिक्षोरेवमिति वक्ष्यमाणोऽभिप्राया भवति, तद्यथा - 'चा'एमी 'ति शक्नोम्यहं तृणस्पर्शमपि सो धृतिसंहननायुपेतस्य महति फलविशेषेऽभ्युद्यतस्य तृणस्पर्शो न किञ्चित्प्रतिभासते, तथा शीतोष्णदंशमशकस्पर्शममधिसोढुं तथा एकतरान् अन्यतरांश्चानुकूलप्रत्यनीकान् वि[रूप, रूपान् स्पर्शान् दुःखविशेषानध्यासयितुं सोढुं शक्नोमि किं त्वहं 'हिरिपंडिच्छादणं' ति हूीलज्जा तया गुह्यप्रदेशस्य प्रच्छादनं ह्रीप्रच्छादनं तच्चाहं त्यक्तुं न शक्नोमि एतच्च प्रकृतिलज्जात्मकतया साधनविकृत रूप
१८७
॥४१५॥