________________
A
૧૮૬
२६२
"तं सच्चति तइ-इङ्गितमरणं सुगतिगमनाविसंवादात सर्वज्ञोपदेशाच्च सत्यं, किम्भूतः साधुः? सत्यं वदितुं शीलमस्येति सत्यवादी ओजः-रागद्वेषरहितः, तीर्ण इव तीर्णः संसारसागरं, कथमहमिङ्गितमरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा या ! कथा सा छिन्ना येन स छिन्नकथं कथः, दुष्करानुष्ठान विधायी हि कथंकथी भवति, स पुनर्महापुरुषतया [न व्याकुलता मियात् , आ-समन्तादतीव इता-ज्ञाता जीवादयोऽर्था येन स अतीतार्थः, 'अणातीते' आ-समन्तादतीव इसो-गतोऽनाद्यनन्ते संसारे आतीतः, न आतीत:-अनातीतः संसारार्णवपारगामीत्यर्थः। स एवम्भूत इगितमरणं प्रतिपद्य' विधिना, किंकृत्वा ? -त्यक्त्वा प्रोज्य सयपेव भिद्यत इति भिदुरं-प्रतिक्षणविशरारं कायं-औदारिकं शरीरं त्यक्त्या, संविधय-परीपहोपसर्गान प्रमथ्य वि[रूप] रूपान्-नानाप्रकारान् सोना अस्मिन् सर्वज्ञप्रणीत आगमे विस्रम्भणतया-विश्वासास्पदे तदुक्ता
ऑविसंवादाध्यवसायेन भैरवं भयानकमनुष्ठानं क्लीबैदुरनु वरमिगितमरणाख्यमनुचीर्णवान् , तत्रापि रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि, न केवलं कालपर्यायेणेत्यपिशब्दार्थः, तस्य-कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्मक्षयस्योभयत्र तुल्यत्वात, आह-'से वि तत्थ' इत्यादि पूर्ववत् ॥२१९ ॥
॥ श्रीविमोक्षाध्ययने षष्ठोद्देशकप्रदीपिका समाप्ता ।।
ए
१ प्रतिपद्यते पा०।
ॐ॥४१४॥