________________
आचा० प्रदी.
११८६
SANILKATASAGAAAAISA
व्वुडच्चे (सू. २१८) 'जस्स'त्ति यस्यैकत्वभावितस्य भिक्षोराहारोपकरणलाघवं गतस्य एवमिति वक्ष्यमाणोऽभिप्रायो भवति, 'से गिलामी'ति 'से' इति तच्छब्दार्थे, तच्छब्दो-वाक्योपन्यासे, 'च' शब्दः-समुच्चये, खलुः अवधारणे, अहं चास्मिन् समये-अवसरे संयमावसरे ग्लायामि रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतो न शक्नोमि रुक्तपोभिरभिनिष्टप्तं शरीरकमानुपूर्व्यायथेष्टकालावश्यकक्रियारूपया परिवोढुं-नालमहं क्रियासु व्यापारयितुम् , अस्मिन्नवसरे ‘से अणुपुव्वेण'त्ति स भिक्षुरानुपूर्व्या ला चतुर्थषष्ठादिकया आहारं संवर्तयेत् संक्षिपेत् , न पुनर्वादशसंवत्सरसंलेखनानुपूर्वीह गृह्य ते, ग्लानस्य तावन्मात्रकालस्थितेरभावात् । द्रव्यसंलेखनया संलिख्य च यदपरं कुर्यात्तदाह--'से आणुपुत्वेण'त्ति षष्ठाष्टमादिकयाऽऽनुपूर्व्याऽऽहारं संवयं कषायान् प्रतनून् कृत्वा सम्यगाहिता-व्यवस्थापिता अर्चा-शरीरं येन स समाहितार्चः-नियमितकायव्यापारः, तथा 'फलगावयट्ठी' तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायाभावतया फलकबदवतिष्ठते इति फलकावस्थायी, वासीचन्दनकल्पः, स एवम्भूतः प्रतिदिनं साकारभक्तप्रत्याख्यायी बलवति रोगे उत्थाय-मरणोद्यम विधाय अभिनिवृतार्चः शरीरसन्तापरहितः धृतिसंहननाधुपेतो इङ्गितमरणं कुर्यात् ॥२१८॥ कथमित्याह--
अणुपविसित्ता गाम वा णगरं वा खेडं वा कब्बडं वा मडंबं वा दोणमुहं वा आगर
LICHAGESESSIESGASSISCHES
॥