________________
१८४
आचा० प्रदी०
ARREARRIEREAL
यदुत आत्मोद्वन्धनाय विहायोगमनं तदाऽऽदद्याद्विषं वा भक्षयेत् , पतनं वा कुर्यात् ।
ननु वेहानसादिकं बालमरणं, तच्चानाय, तत्कथं तस्याङ्गीकारः?
उच्यते-[नैष दोषोऽत्रास्माकम् ] आईतानां, नैकान्ततः किश्चित्प्रतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय, किन्तु द्रव्यक्षेत्राद्याश्रित्य तदेव प्रतिषिध्यते तदेव चाभ्युपगम्यते, 'तथावि तस्स'त्ति यथा संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणाय तथा तत्र-तस्मिन्नवसरे वेहानसगार्धपृष्ठादिमरणमपि' कालपर्याय एव, यद्वकालपर्यायमरणं गुणायैवं वेहानसादिकमपि, 'से वि तत्थति सोऽपि-वेहानसादेविधाता, तत्र-वेहानसादिमरणे, विशेषेणान्तिय॑न्तिः अन्तक्रिया तस्याः कारको भवति, यतोऽनेनाप्यापवादिकेन मरणेनानन्ताः सिद्धाः सेत्स्यन्ति च ।
उपसञ्जिहीर्षुराह-'इच्चेतंति इत्येतत् पूर्वोतं वेहानसादिमरणं विगतमोहानामाश्रयः कर्तव्यतया, हितमपायपरिहारतया, सुखं जन्मान्तरेऽपि सुखहेतुत्वात् , क्षमं युक्तं प्राप्तकालत्वात्, निःश्रेयसं कर्मक्षयहेतुत्वात् , आनुगामिकं-तदनितपुण्यानुगमनात् ॥ २१२ ॥
॥ श्रीविमोक्षाध्ययने चतुर्थोद्देशकप्रदीपिका समाप्ता ॥
ज
१०रणे अपि-बृ०।
॥४०१॥