________________
११८४
A
थाचा प्रदी.
-
GESARILALA
भवन्ति, 'ओमचेलिए'त्ति अवम-न्यून चेलं प्रमाणतो [परिमाणतो मूल्यतश्चं, तदस्यास्तीत्यवमचेलिकः। एतत्-पूर्वोक्तं खुः-अवधारणे, एषैव त्रिकल्पात्मिका द्वादशप्रकारौधिकोपध्यादिरूपा वा सामग्री भवति ॥ २०८॥ शीतापगमे तान्यपि वस्त्राणि त्याज्यानीति दर्शयति
___ अह पुण एवं जाणेज्जा ‘उवातिक्कते खलु हेमंते, गिम्हे पडिवण्णे,' अहापरिजुण्णाई वत्थाइं परिवेज्जा. अहापरिजुण्णाइं वत्थाइं परिहवेत्ता अदुवा संतरुत्तरे, अदुवा
ओमचेले, अदुवा एगसाडे, अदुवा अचेले (सू. २०९) 'अह पुण'त्ति यदि तानि वस्त्राण्यपरहेमन्तस्थितिसहिष्णूनि तत उभयकालं प्रत्युपेक्षयन् बिभर्ति, अथ पुनरेवं जानीयाद्यथाऽप्रक्रान्तः खलु हेमन्तो, ग्रीष्मः प्रतिपन्ना, अपगता शीतपीडा, यथापरिजीर्णान्येतानि वस्त्राणि, एवमवगम्य ततः परिष्ठापयेत् , परिष्ठाप्य च निस्सङ्गो विहरेत् , यदि पुनरतिक्रान्तेऽपि शिशिरे क्षेत्रकालपुरुषगुणाच्छीतं भवेत्ततः किं कर्तव्यमित्याह-'अदुवा संतरुत्तरे' अपगते शीते वस्त्राणि त्याज्यानि, अथवा क्षेत्रादिगुणात् शीने वाते वाति सत्यात्मपरितुलनार्थ सान्तरोत्तरो भवेत् , सान्तरमुत्तरं-प्रावरणीयं यस्य स तथा, क्वचित्पावृणोति क्वचित्पार्श्ववति विभर्ति, अथवाऽवमचेलक एककल्पपरित्यागात् द्विकल्पधारी भवेत् , शनैः शनैः शीतेऽपगच्छति सति द्वितीयमपि कल्पं परित्यजेत् , एकशाटकः स्यात् , अथवा शीताभावे तदपि परित्यज्याचेलो भवति, मुखवस्विकारजोहरणमात्रोपधिः स्यात् ।। २०९ ॥
-
-
-
॥३९८॥