SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ११८४ आचा० प्रदी० ALSARALASAHESARIA णिकस्य बाह्याच्छादनता विधेया, किम्भूतै खिभिर्वस्त्रैः? 'पायचउत्थेहिं' पात्रचतुर्थः पात्रग्रहणेन पात्रनिर्योगः सप्तप्रकारोऽपि गृहीतः, स चायम् "पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिआ। पडलाइ रयत्ताणं च गोच्छओ पायणिज्जोगो ॥ १॥"" [ओघनियुक्ति-गाथा ६६८] तदेवं सप्तप्रकारं पात्रं कल्पत्रयं रजोहरणं मुखवत्रिकेत्येवं द्वादशोपधिः, तस्यैवम्भूतस्य भिक्षोः नैवं भवति-नायमध्यवसायो भवति, [तद्यथा-1 न ममास्मिन् काले कल्पत्रयेण सम्यक शीतापनोदो भवत्यतश्चतुर्थ वस्त्रमहं याचिष्ये, अध्यवसायनिषेधे च तद्याचनं दूरोत्सादितमेव । यदि पुनः कल्पत्रयं न विद्यते शीतकालश्चापतितस्ततोऽसौ जिनकल्पिकादिः 'अहेसणिज्जाईति यथैषणीयानि वस्त्राणि याचेत, याच्यावाप्तानि च वस्त्राणि यथापरिगृहीतानि धारयेत् , न तत्रोत्कर्षणधावनादिकं परिकर्म कुर्यादित्याह-'णो धोएज्जा' नो धावेत-प्रासुकोदकेनापि न प्रक्षालयेत् , गच्छवासिनो ह्यप्राप्तवर्षादौ ग्लानावस्थायां वा प्रामुकोदकेन यतनया धावनमनुज्ञातं, न तु जिनकल्पिकस्य, ‘णो धोतरत्ताई'ति न च धौतरक्तानि वस्त्राणि धारयेत् , पूर्व धौतानि पश्चाद्रक्तानि, 'अपलिउंचमाणे' नामान्तरेषु गच्छन् वस्त्राण्यगोपयन् व्रजेत , तथाभूतान्येवान्तप्रान्तानि बिभर्ति यानि गोपनीयानि न १ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटलानि रजस्त्राणं च गोच्छकः पात्रनियोगः ॥ १॥ SERICA मा०३४ ॥३९७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy