________________
आचा प्रदी.
११८१४ ॥ श्रीविमोक्षाध्ययने चतुर्थोद्देशकः ॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके गृहस्थस्यासदारेका व्युदस्ता, II इह तु योपिदुपसर्गे वैहानसगाईपृष्ठादिकं मरणमप्यवलम्बनीयं, कारणाभावे तु तन्न कार्यमित्यनेन सम्बन्धेनायातस्यास्यांदेश- ||5|| कस्यादिसूत्रम्
जे भिक्खू तिहिं वत्थेहिं पखुिसिते पायचउत्थेहिं तस्स णं णो एवं भवतिचउत्थं वत्थं जाइस्सामि ।
से अहेसणिज्जाइं वत्थाई जाएज्जा, अहापरिग्गहियाइं वत्थाई धारेज्जा, णो धोएज्जा, णो रएज्जा, णो धोतरत्ताई वत्थाइं धारेज्जा, अपलिउंचमाणे गामंतरेसु
ओमचेलिए । एतं खु वत्थधारिस्स सामग्गियं (सू. २०८) । 'जे भिक्खू'त्ति यो भिक्षुः प्रतिमाप्रतिपन्नो जिनकल्पिको वा त्रिभिर्वस्त्रैः पर्युषितो-व्यवस्थितः, तत्र शीते पतत्येक क्षौमिकं प्रावृणोति, ततोऽपि शीताऽसहिष्णुतया द्वितीयं क्षौमिक, पुनरप्यतिशीततया क्षौमिककल्पद्वयोपाणिकम् , सर्वथौ
॥३९६॥