________________
4
१।८।३
आचा० प्रदी.
%AE%
'आउसंतो' आयुष्मन् ! गृहपते ! नो खलु-नैव ग्रामधर्मा मामुदाधन्ते, यत्पुनर्वेपमानगात्रयष्टिमीक्षांचकृषे तच्छीतस्पर्शविजृम्भितं, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोहुम् । एवमुक्तः सन् गृहपतिर्भक्तिकरुणारसाक्षिप्तहृदयो ब्रूयात्-सुप्रज्वलितमग्नि' किमिति न सेवसे ? मुनिराह-'णो खलु में भो गृहपते ! न खलु मे कल्पतेऽग्निकायं मनार उज्ज्यालयितुं प्रकर्षेण ज्वालयितुं स्वतो ज्यालितादौ शरीरमीपत् तापयितुं [आतापयितुं वा] प्रकर्षेण तापयितुं प्रतापयितुं वा, अन्येषां वा वचनात् ममैतत्कतुं न कल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुं न कल्पते मम ।
तं चैवं वदन्तं साधुमवगम्य गृहपतिः कदाचि देतत्कुर्यादित्याह-'सिया से' स्यात्-कदाचित् [स] परो गृहस्थ एवमुक्तनीत्या वदतः साधोरग्निकायमुज्ज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेद्वा, तच्चोज्ज्यालनातापनादिकं भिक्षुः प्रत्युपेक्ष्य विचार्य स्वसन्मत्या परव्याकरणेनान्येषां वाऽन्तिके श्रुत्वा-अवगम्य तं गृहपतिमाज्ञापयेत्-प्रतिबोधयेत् , कया ? अनासेवनया, यथैतत् ममायुक्तमासे वितुं भवता तु. पुनः साधुभक्त्यनुकम्पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति ॥ २०७॥
%
%
AAAAAAAABADAS
%
॥ श्रीविमोक्षाध्ययने तृतीयोद्देशकप्रदीपिका समाप्ता॥
%
A
१- प्रज्वालि०-पा० २ मम -पा० ।
| ॥३९५॥