________________
आचा० प्रदो०
१।११
SHRISHAD
TO THE SERIES:
एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणितव्वा भवंति (सू. ७) एतावन्तः सर्वेऽपि लोके-प्राणिसङ्घाते कर्मसमारम्भाः-क्रियाविशेषा ये प्रागुक्ताः कालत्रयभेदेन कृतकारितानुमतिभिश्च सर्व क्रियानुयायिना सर्वेषां सङ्ग्रहात् , एतावन्त एव परिज्ञातव्या नान्ये, तत्र ज्ञपरिज्ञया सर्वेऽपि कर्मसमारंभा ज्ञातव्याः प्रत्याख्यानपरिज्ञया च सर्वे पापोपादानहेतवः कर्मसमारम्भाः प्रत्याख्यातव्याः ।।७।। इयता सामान्येन जीगस्तित्वं प्रसाधितमधुना तस्यैवात्मनो दिगादिभ्रमणहेतूपदर्शनपूर्वमपायान् दर्श पति
__अपरिण्णायकम्मे खलु अयं पुरिसे जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरति, सव्वाओ वा दिसाओ सव्वाओ अणुदिसाओ सहेति (सू०८) योऽयं पुरि शयनात् पुरुषः पूर्णः सुखदुःखानां वा पुरुषो-जन्तुर्मनुष्यो वा, प्राधान्याच्च पुरुषस्योपादानम्, उपलक्षणं चैतत्तेन सर्वोऽपि चतुर्गत्यापन्नः प्राणी गृह्य ते, दिशोऽनुदिशो वाऽनुसञ्चरति, सः अपरिनातकर्मा-अपरिज्ञात कर्माने नेत्यपरिज्ञातकर्मा, खलुरवधारणे, अपरिज्ञातकर्मव दिगादौ भ्राम्यति नेतर, उपलक्षणं चैतद, अपरिज्ञातात्माऽपरिज्ञातक्रियश्चेति स सर्वा दिशः सर्वाश्चानुदिशः सहेति स्वयंकृतेन कर्मणा सहानुसञ्चरति ॥८॥ स यदाप्नोति तद् दर्शयति
अणेगरुवाओ जोणीओ संधेति, विरुवरूवे फासे पडिसंवेदयति (सू०९)
15555
॥१८॥