________________
आचा०
प्रदी०
महं २ कुर्वन्तमन्यमन्त्रज्ञा सिपमहं ३ करोमि ४ कारयामि ५ अनुजानाम्यहं ६ करिष्याम्यहं ७ कारयिष्याम्यहं ८ कुर्वन्तमन्यमनुज्ञास्याम्यहं ९ एते नव मनो- वाक्कायैश्चिन्त्यमाना २७ भेदा भवन्ति ।
अकार्षमहमित्यनेन विशिष्टक्रियापरिणतिरूप आत्माऽभिहितः, ततश्च स एवाऽहं मयाऽस्य देहादेः पूर्वं यौवनावस्थायामिन्द्रियवशगेन विषयविमोहितान्धवेतसा तत्तदकार्यानुष्ठानपरायणेनाऽऽनुकूल्यमनुष्ठितम्, यतः - "विहवावलेवनडिएहिं जाई कीरंति जोव्वणमएणं । वयपरिणामे सरियाई ताई हियए खुडुकंति ॥ १ ॥ " [ ]
तथा अवीकरमहमित्यनेन परोऽकार्यादौ प्रवर्तमानो मया प्रवृत्ति कारितः, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिर्भूतकालाभिधानम् ।
तथा करोमीत्यादिना वचनत्रिकेण वर्तमानकालोल्लेखः ।
तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान् प्रति समनुज्ञापरायणो भविष्यामीत्यादिना वचनत्रिकेणानागतका लोल्लेखः । अनेन कालत्रयसंस्पर्शन देहेन्द्रियातिरिक्तस्वात्मनो कालत्रयपरिणतिरूपस्यास्तित्वावगतिरावेदिता || ६ ||
अथ किमेतावत्य एव क्रिया उतान्यापि सन्तीत्याह
१ विभवावलेपनटितैर्यानि क्रियन्ते यौवनमदेन । वयःपरिणामे स्मृतानि तानि हृदये शल्यायन्ते || १ ||
॥१७॥