________________
आचा प्रदी.
१।८।३
AARAM
विदितवेद्यश्च परीपहपीडितोऽपि किं कुर्यादित्याह
ओए दयं दयाइ जे संणिधाणसत्थस्स खेत्तण्णे, से भिक्खू कालण्णे बालण्णे मातण्णे खणयण्णे विणयण्णे समयण्णे परिग्गहं अममायमाणे कालेणुट्ठाई अपडिण्णे दुहतो छेत्ता णियाति (सू. २०६)
'ओए दय'ति ओजः-एको रागादिरहितः सन् क्षुत्पिपासादिपरीषहे दयामेव दयते-कृपां पालयति । कः पुनर्दयां | पालयतीत्याह-'जे संणिधाण'त्ति यो हि लघुकर्मा सम्यङ् निधीयते नारकादिगतिषु येन तत्सभिधानं-कर्म तस्य स्वरूपनिरूपकं शास्त्रं तस्य खेदज्ञो-निपुणः, स भिक्षुः कालज्ञः-उचितानुचितावसरज्ञः, एतानि सूत्राणि लोकविजयपश्चमोद्दे. शकव्याख्यानुसारेण नेतव्यानि, तथा बालज्ञो मात्रज्ञः क्षणको विनयज्ञः समयज्ञः परिग्रहममत्वेन अचरन् कालेनोत्थायी अप्रतिज्ञः उभयतश्छेत्ता, स चैवम्भूतः संयमानुष्ठाने निश्चयेन याति निर्याति ॥२०६॥ तस्य च संयमानुष्ठाने परिव्रजतो यत्स्यात्तदाह
तं भिक्खु सीतफासपरीवेवमाणगातं उवसंकमित्तु गाहावती बूया-आउसंतो समणा ! णो खलु ते गामधम्मा उबाहंति ? आउसंतो गाहावती! णो खलु मम १ परिग्रहमसमत्वेन माचरन्-पा० ।
॥३९३॥