________________
आचा० प्रदी०
१२८३
मर्यादाव्यवस्थितः, पण्डितानां-तीर्थकदादीनां वचनं श्रुत्वा-आकर्ण्य निशम्य-अवधार्य समतामालम्बेत, किमिति ? यतः समतया-माध्यस्थ्ये नार्यैः-तीर्थकृद्भिर्धर्म:-श्रुतचारित्राख्यः प्रवेदितः, ते बुध्यमानाः किं कुर्युरित्याह--'ते अणहिकंखमाणा' ते निष्क्रान्ताः कामभोगाननभिकाङ्क्षन्तः प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृह्णन्तः, एवंभूताश्च स्वदेहेऽप्यममत्वाः, 'सम्बावंति' सर्वस्मिन्नपि लोके नो परिग्रहवन्तश्च भवन्तीति । किश्च-'णिहाय दंडंति प्राणिनो दण्डयतीति दण्डः-परितापकारी तं दण्डं [प्राणिषु] प्राणिभ्यो वा निधाय त्यक्त्वा पापं पापोपादानं कर्माष्टादशभेदभिन्नं तदकुर्वाणोऽनाचरन्नेष महान् न विद्यते ग्रन्थः सबाहथाभ्यन्तरोऽस्येत्यग्रन्थः व्याख्यातस्तीर्थकरादिभिः। कश्चैवंभूतः स्यादित्याह--'ओए'त्ति ओजःअद्वितीयः एको रागद्वेषविरहात् द्युतिमान्-संयमो मोक्षो वा तस्य खेदज्ञो-निपुणो देवलोकेऽप्युपपातं च्यवनश्च ज्ञात्वा सर्वस्थानानित्यताहितमतिः पापकर्मवीं स्यात् ॥२०४॥
केचित्तु परीपहेर्लानतां नीयन्त इत्याह-- ___ आहारोवचया देहा परीसहपभंगुणो । पासहेगे सविदिएहिं परिगिलायमाणेहिं (सू. २०५) __ आहारेणोपचयो येषां ते आहारोपचयाः, के ते ? देहाः-शरीराणि, आहाराभावात्तु म्लायन्ते म्रियन्ते वा, परीषहै। सद्धिर्भङ्गुरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपि प्राप्तपरीपहा वातादिक्षोभेण वा पश्यत यूयमेके कटीबाः सर्वैरिन्द्रियैर्लायमानैः क्लीबतामीयुः, केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद आस्तां तावदपरः प्रकृतिभगुरशरीरः॥२०५॥
K//॥३९२॥