________________
आचा प्रदी.
११८/२
व्ययाद् आहृत्य-दौकित्वा तदपरिभोगे स्पृशन्ति-उपतापयन्ति, कथमित्याह--'से हता' स ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ प्रेरयति, तद्यथा-हतैनं साधु दण्डादिभिः क्षणुत-व्यापादयत, छिन्त हस्तपादादिकं, दहत अग्न्यादिना, पचत उरुमांसादिकं, आलुम्पत वस्त्रादिकं, विलुम्पत सर्वस्वापहारेण, सहसा कारयत-आशु पश्चत्वं नयत, तथा विविधं परामृशत-नानापीडाकारणैर्वाधयत । 'ते फासे'त्ति तान् स्पर्शान् दुःखविशेषान् धीरोऽक्षोभ्यः तैः स्पशैंः स्पृष्टः सम्बधिसहेत, 'अदुवा आयार'त्ति साधूनामाचारगोचरं-आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्न पिण्डविशुद्धिं वाऽऽचक्षीत, किं सर्वस्य सर्वं कथयेत् ? नेति दर्शयति--तर्कयित्वा-पर्यालोच्य पुरुषं, तद्यथा-] कोऽयं पुरुषः? कञ्च नतोऽभिगृहीतोऽनभिगृहीतो मध्यस्थः प्रकृतिभद्रको वेत्येवमुपयुज्य अनीदृशं स्वपरपक्षस्थापनाव्युदासद्वारेणावेदयेत् । सति सामर्थ्य शृण्वति वा दातरि आचारगोचरमाचक्षोत, अथवेत्यन्यथाभावे तु वाग्गुप्त्या व्यवस्थितः सन्नात्महितमाचरन् गोचरस्य-पिण्ड विशुद्धयादेगचारस्य आनुपूर्व्या-उदगमप्रश्नादिरूपया, 'सम्म पडिलेहए' सम्यकशुद्धि प्रत्युपेक्षेत, किम्भूतः-आत्मगुप्तः सन् -सततोपयुक्तः सन् , नैतन्मयोच्यत इत्याह-'बुद्धेहि ति बुद्धैः-कल्प्याकल्प्यविधि रेतत्पूर्वोक्तं प्रवेदितम् ॥२०१॥ एतद्वा वक्ष्यमाणमित्याह
से समणुण्ण असपणुण्णस्स असणं वा ४ जाव नो पाइज्जा णो णिमंतेज्जा णो कुज्जा वेयावडियं परं आढायमाणे त्ति बेमि (सू. २०२) न केवलं गृहस्थेभ्यः कुशीलेभ्यो वा अल्प्यमिति कृत्वाऽऽहारादिकं न गृहणीयात् , स समनोज्ञोऽसमनोज्ञाय तत्पूर्वो
8|॥३८९॥