SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० दिष्टेनोपायेन वा अन्येभ्यो वा तत्परिजनादिभ्यः श्रुत्वा जानीयात्, यथाऽयं खलु गृहपतिर्मदर्थमशनादिकं प्राण्युपमर्देन विधाय मह्यं ददात्यावसथञ्च समुच्छृणोति, तद्भिक्षुः सम्यक् प्रत्युपेक्ष्य पर्यालोच्यावगम्य च ज्ञात्वा [च] आज्ञापयेत् तं गृहपतिमनासेवनया यथाऽनेन विधानेन कृतमाहारादिकं नाऽहं भुज्जे, यद्यसौ श्रावकस्ततो लेशतः पिण्डनिर्युक्तिं कथयेद्, अन्यस्य प्रकृतिभद्रकस्योद्गमादिदोषान् कथयेत् प्रासुकदानफलं च प्ररूपयेत् इतिरधिकारपरिसमाप्तौ ब्रवीमीत्येतपूर्वोक्तम् वक्ष्यमाणं चेत्याह ॥ २०० ॥ भिक्खूं च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा फुसंति, से हंता हणह खणह छिंदह दहह पचह आलुपह विलुंह सहसक्कारेह विप्परामुसह । ते फासे पुट्ठो धीरो अहियासए । अदुवा आयारगोयरमाइक्खे तक्कियाणमणेलिसं । अदुवा वइगुत्तीए गोयरस्स अणुपुब्वेण सम्मं पडिलेहए आयगुते । बुद्धेहिं एवं पवेदितं (सू. १९१) 'भिक्खु च 'त्ति भिक्षु पृष्ट्वा कश्चिद्यथा भो भिक्षो ! भवदर्थमशनादिकमावसथं वा संस्करिष्येऽननुज्ञातोऽपि तेनासौ तत्करोत्यवश्यमयं चादुभिर्बलात्कारेण वा ग्राहयिष्यते, अन्यस्त्वीपत्साध्वाचारविधिज्ञोऽतोऽपृष्ट्वैव छद्मना ग्राहयिष्यामीत्यभिसन्धायाशनादिकं विदध्यात् स च तदपरिभोगे श्रद्धाभङ्गाच्चाटुशताग्रहणाच्च रोपावेशात् न्यक्कार भावनातः प्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-- 'जे इमे आहच्च 'त्ति ये इमे प्रश्नपूर्वकमप्रश्नपूर्वकं वा आहारादिकं ग्रन्थात् - महतो द्रव्य , , १८२ ॥ ३८८ ॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy