________________
શતા?
आचा प्रदी.
RECUPER-LOGE GESPEELGER
तं परिण्णाय मेहावी तं वा दंडं अण्णं वा दंडं णो दंडभी दंडं समारभेज्जासि त्ति बेमि (सू. १९८)
॥विमोक्खस्स पढमो उद्देसओ समत्तो ॥ 'उड्ढ'ति ऊर्ध्वमधस्तियग्दिक्षु सर्वतः-सर्वैः प्रकारैः सर्वा याः काश्चन दिशोऽनुदिशश्च प्रत्येकं जीवेषु-एकेन्द्रियसूक्ष्मेतरेषु यः कर्मसमारम्भ:-जीवानुद्दिश्य य उपमर्दरूपः क्रियायाः समारम्भः,
तंज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत, मेधावी-मर्यादाव्यवस्थितः कथं प्रत्याचक्षीत ? 'णेव सयंति नैव स्वयमात्मना एतेषु कायेषु पृथिवीकायादिषु दण्डम् -उपमर्द समारभेत, न चापरेण समारम्भयेत् , नैवान्यान् समारभमाणान् समनुजानीयात् , ये चान्ये दण्डं समारभन्ते, तैरपि वयं लज्जामहे' इत्येवं कृताध्यवसायः सन् तज्जीवेषु कर्मसमारम्भं महतेऽनर्थाय ।
परिज्ञाय-ज्ञात्वा, मेधावी-मर्यादागन् तद्वा पूर्वोक्तं दण्डमन्यद्वा मृषावादादिकं दण्डादिभेतीति दण्डभीः सन् नो दण्डंप्राण्युपमर्दादिकं समारभेथाः, करणत्रिकयोगत्रिकेण परिहरेत् , इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥१९८॥
॥ श्रीविमोक्षाध्ययने प्रथमोद्देशकप्रदीपिका समाप्ता ॥
BALASALAWALASAILABORE
लज्जामः-पा०।
॥३८३