SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ १२८१ आचा प्रदी० ARCLAGUAAAAAAGARLX अत्राह-कथं तीथिकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचारित्रिणोऽतपस्विनो वा ? तेऽप्यकृष्टभूमिवनवासिनो भूलकन्दाहारा वृक्षादिनिवासिनश्च, अत्राहाचार्य:-नारण्यवासादिना धर्मः, अपि तु जीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच्च, तच्च तेषां नास्त्यतोऽसमनोज्ञास्ते इति । किञ्च सदसद्विवेकिनो हि धर्मः, स च ग्रामे वा स्यादथवाऽरण्ये, नैवाधारो ग्रामो नैधारण्यं धर्मनिमित्तं, यतो भगवता न वसिममितरद्वाऽऽश्रित्य धर्म प्रवेदितः, जीवादितचपरिज्ञानात् सम्यगनुष्ठानाच्च, अतस्तं धर्ममाजानीत, प्रवेदितं-कथितं 'माहणेण'त्ति भगवता, किम्भूतेन ? मतिमता-केवलिना । किम्भूतो धर्मः प्रवेदित इत्याह-'जामा तिणि यामा-व्रतविशेषाः त्रय उदाहृताः, तद्यथा-प्राणातिपातो मृषावादः परिग्रहश्च, अदत्तादानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं, ते उदाहृताः-व्याख्याताः, येषु यामेषु हमे देशार्याः सम्बुध्यमानाः सन्तः समुत्थिताः, के ? ये निवृताः-क्रोधाद्यपगमनेन शीतीभूताः पापेसु कर्मसु अनिदाना-निदानरहिताः व्याख्याता:-प्रतिपादिताः॥१९७॥ क्य पुनः पापकर्मस्वनिदाना इत्यत आह - उड्डं अधं तिरियं दिसासु सब्बतो सब्यावंति च णं पाडियक्कं जीवहिं कम्मसमारंभे णं ।। तं परिणाय मेहावो णेव सयं एतेहिं काएहिं दंडं समारंभेज्जा, नेक्न्नेहि एएहि काएहिं दंडं समारंभाविन्जा, णेवऽण्णे एतेहिं काएहि दंडं समारभंते वि समणुजाणेज्जा । जे चऽण्णे एतेहिं काएहिं दंडं समारभंति तेसि पि वयं लग्जामो । RECAHARASATAR ॥३८२।
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy