________________
१।८।१
आचा० प्रदी०
ARRRRECRETARVASNA
से जहेतं भगवया पवेदितं आसुपण्णेण जाणया पासया । अदुवा गुत्ती वइगोयरस्स त्ति बेमि ।
सब्बत्थ संमतं पावं । तमेव उवातिकम्म एस महं विवेगे वियाहिते । गामे अदुवा रणे, णेव गामे णेव रण्णे, धम्ममायाणह पवेदितं माहणेण मतिमया। जामा तिण्णि उदाहडा जेसु इमे आरिया संबुज्झमागा समुट्ठिता, जे णिव्वुता पावेहि कम्मे हिं अणिदाणा ते वियाहिता (सू. १९७)
से जहेत' तद्यथा इद-स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायि क्वचिदप्यप्रतिहतं भगवता श्रीवर्धमानस्वामिना प्रवेदितम् , किम्भूतेन ?-आशुप्रज्ञेन, निरावरणत्वात् सतत पयुक्तेन, किं योगपद्येन ? नेति दर्शयति-'जाणया' ज्ञानोपयुक्तेन, पश्यता-दर्शनोपयुक्तेनैतत्प्रवेदितम् । 'अदुवा गुत्ती' [अथवा गुप्तिर्वाग्गोचरस्य-भाषासमितिः कार्येत्येतत्प्रवेदितं भगवता, यदिवा] अस्तिनास्त्यादिवादिनां वादायोत्थितानां वादलब्धिमतां प्रतिज्ञाहेतुद्रष्टान्तोपन्यासद्वारेण तदुपन्यस्तदूषणोपन्यासेन च तत्पराजयापादनतः सम्यगुत्तरं देयम् , अथवा गुप्तिर्वाग्गोचरस्य विधेयेत्येतदहं ब्रवीमि ।
वक्ष्यमाणं चेत्याह–'सबत्य संमतंति तान् वादिनो वादायोत्थितानेवं ब्रूयाद्-यथा भवतां सर्वेषामपि पृथिव्यप्तेजोवायुवनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र सम्मतम्-अभिप्रेतमपतिषिद्धं पापं-पापानुष्ठानं, मम तु नैतत्सम्मतमित्याह-'तमेव उवातिकम्म' तदेवैतत्पापानुष्ठानं उप-सामीप्येनातिक्रम्य-अतिलठ्य ततोऽहं व्यवस्थितोऽत एष मम विवको व्याख्यातः, तत्कथमहं सर्वाप्रतिषिद्धाश्रवद्वारैः संभाषणमपि करिष्ये ? आस्तां तावद्वाद इत्येवमसमनुज्ञविवेकं करोति,
॥३८॥