SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ आचा० १२८१ प्रदी. KADASHIE इश्वरप्रेरितं केचित् केचित् ब्रह्मकृतं जगत् । अव्यक्तप्रभवं सर्व विश्वमिच्छन्ति कापिलाः॥१॥ यादृच्छिकमिदं सर्व केचिद्भूतविकारजम् । केचिच्चानेकरूपं तु बहुधा संप्रधाविताः ॥२॥ [ इत्यादि, तदेवमनवगाहितस्याद्वादसमुद्राणामेकांशावलम्बिना मतिभेदाः प्रादुष्ष्यन्ति, येषां तु पुमः स्याद्वादमतं निश्चितं तेषामस्तित्वनास्तित्वादेरर्थस्य नयाभिप्रायेण कथञ्चिदाश्रयणात् विवादाभाव एव । ते च विवदन्तः परस्परतो विप्रतिपन्ना 'मामगं धम्म' मामकं-आत्मीयमात्मीयं धर्म प्रज्ञापयन्तः स्वयं नष्टाः परानपि नाशयन्ति, तथाहि केचित् सुखेन धर्ममिच्छन्ति, अपरे दुःखेनान्ये स्नानादिना, मामक एवैको धर्मों मोक्षायानिर्वाच्यश्च, नापर इत्येवं वदन्तोऽपुष्टधर्माणोऽविदितपरमार्थान् प्रतारयन्ति, तेषामुत्तरं दर्शयति-'एत्थ वि जाणह' अत्रापि अस्ति लोको नास्ति वेत्यादौ जानीत यूयम् | अकस्मादिति मागधदेशे आबालगोपालाङ्गनादिना संस्कृतस्यैवोच्चारणादिहापि तथैवोच्चारितः, कस्मादिति हेतुर्नकस्मादकस्माधेतोरभावात् । 'एवं तेर्सि'ति एवम्-उक्तनीत्या तेषामेकान्तवादिनां न स्वाख्यातो धर्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो का भवति ॥ १९६॥ N ESEARCICIRCTER ॐ ॐॐॐ SCREEN ॥३८०॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy