________________
૨૮૨
सर्वेषु भावेषु विनष्टेषु ब्रह्मणा जगन्मातरः मष्टाः।
अदितिः सुरसानां दितिरसुराणां मनुर्मनुष्याणाम् । विनना विहङ्गमानां माता विश्वप्रकाराणाम् ॥१॥ कद्रुः सरीसृपाणां सुलसा माता तु नागजातीनाम् ।
सुरभिश्चतुष्पदामामिला पुनः सर्वबीजानाम् ॥ २॥ [ इत्यादि । अपरे तु पुनरनादिको लोको, यथा शाक्या आहुः--अनवदग्रोऽयं भिक्षवः ! संसारः, पूर्वा च कोटी न प्रज्ञायते, तथा सपर्यवसितो लोको, जगत्प्रलये सर्वस्य विनाशसद्भावात् , तथाऽपर्यवसितो लोकः, सतः आत्यन्तिकविनाशासम्भवात् , तदेवं परमार्थमनानाना अस्तोत्याद्यभ्युपगमेन लोकं विवदमानाः प्रभूता वाचो नियुञ्जन्ति, तथा आत्मानं प्रति विवदन्ते, 'सुकडे ति वा' सुष्टु कृतं सुकृतं दुष्कृतमित्येवं क्रियावादिनः संप्रतिपद्यन्ते, तथा सुष्टु कृतं यत्सङ्गपरित्यागतो महाव्रतमग्राहि, अपरे दुष्कृतं भवता यदसौ मुग्धमालोचना पुत्रमनुत्पाद्योज्झिता, तथा य एव कश्चित्प्रवज्योधतः कल्याण इत्येवमभिहितः स एवापरेण पाखण्डिक विप्र लब्धोऽयं क्लीबो गृहाश्रमपालनायासमर्थोऽनपत्यः पाप इत्येवमभिधीयते, तथा साधुरिति वा असाधुरिति वा सिद्धिरिति वा असिद्धिरिति वा नरक इति वा अनरक इति वा, एवमन्यदप्याश्रित्य स्वाग्रहग्राहिणो विवदन्त इति दर्शयति, 'जमिणं विपडिवणा' यदिदं विप्रतिपन्ना यत्पूर्वोक्तं लोकादिकं तदिदमाश्रित्य विविधं प्रतिपन्ना विप्रतिपन्नाः, [ तथा चोक्तम्-]