________________
आचा०
८१
प्रदी०
इति स्वादिम-कर्पूरलवङ्गादि, तथा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादपुञ्छनं वा नो प्रदद्यात् , [ यत् ] प्रासुकमप्रासुकं वा तदन्येषां कुशीलानामुपभोगाय नो वितरेत् , नापि दानार्थ निमन्त्रयेत् , न च तेषां वैयावृत्त्यं कुर्यात् , परम्-अत्यर्थमाद्रियमाण अत्यर्थमादरखान्न तेभ्यः किमपि दद्यात् नापि तानामन्त्रयेत् न च तेषां वैयावृत्त्यमुच्चावच्चं कुर्यादिति, ब्रवीमीत्यधिकारपरिसमाप्तौ ॥ १९४॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्याह--
धुवं चेतं जाणेज्जा असणं वा जाव पादपुंछणं वा, लभिय णो लभिय, भुंजिया नो भुंजिया, | पंथं वियत्ता विओकम्म, विभत्तं धम्मं झोसेमाणे समेमाणे वलेमाणे पाएज्ज वा, णिमंतेज्ज वा, कुज्जा वेयावडियं । परं अणाढायमाणे ति बेमि (सू. १९५)
ते हि शाक्यादयः कुशीला अशनादिकमुद्दिश्यैवं' युः यथा ध्रुवं चैतन्जानीयात्-नित्यमस्मदावसथे भवति लभ्यते वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वा वाऽलब्ध्वा वा भुक्त्वा वाऽभुक्त्वा वाऽस्मद्धृतयेऽवश्यमागन्तव्यं, अलब्धे [लाभाय लब्धे] ऽपि विशेषाय भुक्ते पुनर्भोजनायाभुक्तेऽपि प्रथमालिकार्थमस्मद्धृतये यथाकथञ्चिदागन्तव्यं, यद्यथा भवतां कल्पनीयं भवति तत्तथा दास्याम इति, अनुपथ एवास्मदावसथो भवतां वर्तते, अन्यथाऽप्यस्मत्कृते पन्थानं व्यावापि वक्रपथेनाप्यागन्तव्य
१ ०मुपदश्य म् - बृ०॥
ARISHRSHASHASAHE ASIANS
॥३७६॥