________________
आचा० प्रदी०
१।८।१
১৯৭৭%%%954
इत्युद्देशार्थाधिकारः ४-८।
नामनिष्पन्ने निक्षेपे क्मिोक्ष इति नाम, तत्र भावविमोक्षो द्विधा-' देशतः सर्वतश्च, तत्र देशतोऽविरतसम्यग्दृष्टीनामाद्यकषायचतुष्कक्षयोपशमादेशविरतानामाद्याष्टककषायक्षयोपशमाद्भवति, साधूनां च द्वादशकपायक्षयोपशमात् क्षपकश्रेण्यां तु यस्य यावन्मात्रं क्षीणं तस्य तत्क्षयाद्देशविमुक्तता, अत: साधवो देशविमुक्ता, भवस्थ केवलिनोऽपि भवोपग्राहिकर्मसद्भावादेशविमुक्ता एव, सर्वविमुक्ताश्च सिद्धाः ।
गतो नामनिष्पनो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
से बेमि - समणुण्णस्स वा असमणुण्णस्स वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं | वा पडिग्गहं वा कंबलं वा पादपुंछणं वा णो पाएज्जा, णो णिमंतेज्जा, णो कुज्जा वेयावडियं परं आढायमाणे ति बेमि (सू. १९४)
से बेमि'त्ति सोऽहं ब्रवीमि योऽहं भगवतः सकाशात् ज्ञातज्ञेय इति, किं तत्-वक्ष्यमाणं, तद्यथा-समनोज्ञस्य वा, वाशब्द उत्तरापेक्षया पक्षान्तरद्योतकः, समनोज्ञो दृष्टितो लिङ्गतो न तु भोजनादिभिः तस्य, तद्विपरीतस्त्वसमनोज्ञः-शाक्यादि. स्तस्य, 'असणं वा' अश्यत इत्यशनं-शाल्योदनादि, पीयत इति पानं-द्राक्षापानकादि, खाद्यत इति खादिम-नालिकेरादि, स्वाद्यत
१ नोआगमतः भावविमोक्षो द्विधा । २ नाहिसद्भा० - ५० ।
ASSISTANHASHA
| ॥३७५॥