SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ SReq भाचा प्रदी० १८१ १८९८६२६२८१२४६२२०१२८१ ॥ अथाष्टमं विमोक्षाध्ययनम् ॥ ( सप्तमं महापरीज्ञाख्यमध्ययनं व्युच्छिन्नम् ) उक्तं षष्ठमध्ययनं, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः, तच्च व्यवच्छिन्नमितिकृत्वातिलध्याष्टमस्य सम्बन्धी वाच्यः, स चायम्-इहानन्तराध्ययने निजकर्मशरीरोपकरणगौरवत्रिकादिविधूननेन निःसङ्गताऽभिहिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्यादित्यतः सम्यग्निर्याणप्रतिपादनायेदमारभ्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योद्देशार्थाधिकारः प्रोच्यते तत्राद्योद्देशकेऽयमर्थाधिकारः, तद्यथा-त्रयाणां त्रिषष्ट्यधिकानां प्रावादुकशतानां' पार्श्वस्थादीनां च विमोक्षः परित्याग कार्यः१। द्वितीये तु-अकल्पिकस्य-आधाकर्मादेविमोक्षः परित्यागः कार्यः ।। तृतीये तु-गोचरगतस्य यतेशीतादिना कम्पनादिकायामङ्गचेष्टायां सत्यां गृहस्थस्येयमारेका स्याद् यथा-ग्रामधर्मरुद्वाध्यमानस्य शृङ्गारभावावेशादस्य यतेः कम्पनमित्येवं भाषिते तदाशङ्काव्युदासाय यथावस्थितार्थकथना क्रियते । शेषेषूद्देशकेषु पञ्चस्वयमर्थाधिकारः, तद्यथा-उपकरणशरीराणां विमोक्षः-परित्यागः समासतो व्यासतस्तूच्यते, १ प्राक्षकशतानां - पा० । PALSUSKLOGISTARAR:843 ॥३७४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy