________________
आचा प्रदी.
११६५
'कायस्स'त्ति चीयत इति कायस्तस्य विशेषेण आङ्-मर्यादयाऽऽयुष्कक्षयावधिलक्षणया पातो व्यापातः शरीरविनाश' एष सङ्ग्रामशीर्षरूपतया व्याख्यातो, यथा हि सङ्ग्रामशिरसि परानीकनिशाताकृष्टकृपाणनिर्यत्प्रभासंवलितोद्यत्सूर्यविडुद्भूतविद्युन्नयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकारं विधत्ते, एवं मरणकाले समुपस्थिते परिकर्मितमतेरप्यन्यथाभावः कदाचित्स्यादतो यो मरणकाले न मुह्यति स पारगामी मुनिः संसारस्य कर्मणो वा उत्क्षिप्तभारस्य वा पर्यन्तयायी।
किश्च-'अवि हम्ममाणे' हन्यमानोऽपि परीषहोपसगैः फलकवदवतिष्ठते न कातरीभवति, कालोपनीतः-मृत्युकालेनात्मवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगहरादिस्थण्डिले पादपोपगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतः कालं मरणकालमायुष्कक्षयं यावच्छरीरस्य जीवेन सार्द्ध भेदो भवति तावदाकाङ्क्षद्, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववदिति पञ्चमोद्देशकः समाप्तः ।। १९३॥
इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां
श्रीआचाराङ्गप्रदीपिकायां षष्ठं श्री धृताध्ययनं समाप्तम् ।।
AAAAAAAAAX
मा०३२
१०णया घातो व्याघातः- शरी०-पा० ।
॥३७३॥