________________
पाचा०
दी०
यस्त्वसङ्ख्यातवान् पेशलं धर्मं नासौ परिनिर्वातीति दर्शयति-- ' तम्हा संगं 'ति इतिर्हेतौ, यस्मात् मिथ्यादृष्टिः सङ्गवान् ननिर्वाति तस्मात् सङ्गं मातापितृकलत्रादिजनितं धनधान्यादिजनितं वा विपाकं वा पश्यत यूयं विवेकेनावधारयत, सूत्रेणैव सङ्गमाह-- 'गंथेहिं गढिता' त एवं सङ्गिनो नराः सबाहयाभ्यन्तरैर्ग्रन्थैर्ग्रथिता अवबद्धा विषण्णा ग्रन्थसङ्गे निमग्नाः कामैरिच्छामदनरूपैराक्रान्ता अवष्टब्धा न निर्वान्ति, यद्येवं ततः किं कर्तव्यमित्याह -- 'तम्हा लूहातो' तस्माद् रूक्षात् - संयमान्निःसङ्गात्मकात् नो परिवित्र सेत् न बिभीयात् । कस्य पुनः संयमान परिवित्रसनं सम्भाव्यत इत्याह – 'जस्सिमे' यस्य महा| मुनेरिमे सङ्गाः- आरम्भाः सर्वतोऽविगानतः सर्वजनाचरितत्वात् प्रत्यक्षाः सर्वतः - सर्वात्मकतया सुपरिज्ञाता भवन्ति, किम्भूता आरम्भाः ? येष्विमे जना लूपिणो हिंसका अज्ञानमोहोदयात् न परिवित्रसन्ति न बिभ्यति । यश्चारम्भाणां परिज्ञाता स किमपरं कुर्यादित्याह —- स - महामुनिः पूर्वव्यावर्णितस्वरूपो वान्त्वा त्यक्त्वा क्रोधं च मानं च मायां च लोभं च स एवं क्रोधादीन् वान्या मोहनीयं त्रोटयति, स चैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्टः - अपसृतो व्याख्यातस्तीर्थकर गणधरादिभिरितिरधिकारपरिसमाप्तौ ब्रवीम्येतत् पूर्वोक्तम् ॥ १९२ ॥
यदि वैतद्वक्ष्यमाणमित्याह -
कायस्स विओवाए एस संगामसी से वियाहिए । से हु पारंगमे मुणी |
अवि हम्ममाणे फलगावतट्टी कालोवणी ते कंखेज्ज कालं जाव सरीरभेदो त्ति बेमि (सू. १९३)
॥ धुयनामयं छट्टमज्झयणं समत्तं ॥
१२६५
॥ ३७२ ॥