________________
आचा
श६५
प्रदी०
BIROURURLARLA
तस्मादवटतटाकादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्ध प्ररूपयेदसावद्यानुष्ठानं वेति, एवं ब्रुवन्नुभयदोषपरिहारी' जन्तूनामाश्वासभूमिर्भवति, एतदृदृष्टान्तद्वारेण दर्शयति-'जहा से दीवे' यथाऽसौ द्वीपोऽसन्दीनः शरणं भवत्येवमसावपि महामुनिः तद्रक्षणोपायोपदेशदानतः वध्यमानानां वधकानां च तदध्यवसायनिवर्त्तनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, तथाहि--यथोक्तप्रकारेण धर्मकथां कथयन् कांचन प्रवाजयति, कांचन श्रावकान् विधत्ते, कांचन सम्यगदर्शनयुजः करोति, केषाञ्चित्प्रकृतिभद्रकतामापादयति ।
किंगुणश्चासौ शरण्यो भवतीत्याह--'एवं से उद्विते' एवमिति वक्ष्यमाणप्रकारेण स-शरण्यो महामुनिर्भावोत्थानेन संयमानुष्ठानरूपेण उत्-प्रावल्येन स्थित उस्थितः, स्थितो ज्ञानादिके मोक्षमार्गे आत्मा यस्य स स्थितात्मा, अस्निहो-रागद्वेषरहितत्वादप्रतिबद्धः, तथा न चलतीत्यचलः परीषहोपसर्गवातेरितोऽपि, तथा चलोऽनियतविहारित्वात् तथा संयमाद्वहिनिर्गता लेश्याऽध्यवसायो यस्य स बहिर्लेश्यः, यो न तथा सोऽवहिर्लेश्यः, स एवम्भूतः परिः-समन्तात् संयमानुष्ठाने परिव्रजेत् ।
स च किमिति संयमानुष्ठाने परिव्रजेदित्याह--'संखाय'त्ति संख्याय-अबधार्य पेशलं-शोभनं धर्म 'दिटिम' अविपरीतार्थदर्शनं दृष्टिः सदनुष्ठानं वा, [सायस्यासौ दृष्टिमान् , 'परिणिचुडे' परिः-समन्तानिवृतः-शीतीभूतो ।
१ एवं कुर्वन्नुभ०-पा०।
ASIASISASAR
॥३७१॥