________________
आचा० प्रदी.
१।६।५
स भिक्षु:-साधुरनुविचिन्त्य-पूर्वापरेण धर्म पुरुषं वाऽऽलोच्य यो यस्य कथनयोग्यस्तं धर्ममाचक्षाणः आइ-मर्यादया यथाऽनुष्ठानं सम्यग्दर्शनादेः शातना आशातना तया आत्मानं नो आशातयेत् , आत्मन आशातना द्विधा-द्रव्यतो भावतश्च, द्रव्यत-आहारोपकरणादेव्यस्य कालातिपातादिकृताऽऽशातना-बाधा न भवति तथा कथयेद् , आहारादिद्रव्यबाधया च शरीरस्यापि पीडा भावाशातनारूपा स्यात् , कथयतो यथा गात्रभङ्गरूपा भावाशातना न स्यात् तथा कथयेत, तथा नो परं शुश्रूषमाणमाशातयेद्, यतः परो हीलनया कुपितः सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवर्तते', अतस्तदाशातनां वर्जयन् || धर्म बुयात् , तथाऽन्यान् वा सामान्येन प्राणिनो भूतान् जीवान् सत्वानो आशातयेद्-बाधयेत् ।
तदेवं स मुनिः स्वतोऽनाशतकः परैरनाशातयन् तथाऽपरानाशातयतोऽननुमन्यमानो परेषां वध्यमानानां प्राणिनां यथा पीडा नोत्पद्यते तथा धर्म कथयेत् , तद्यथा-यद्यसौ लोकिककुप्रावचनिकपार्श्वस्थादिदानानि प्रशंसति अवटतटाकादीनि वा ततः पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति तदाऽपरेषामन्तरायापादनेन तत्कृतो बन्धविपाकानुभवः स्यात्, उक्तश्च
"जे उदाणं पसंसंति, वहमिच्छंति पाणिणं ।
__ जे उणं पडिसेहिति वित्तिच्छे करिति ते । १॥ [ १ प्रवर्त्तत - वृ० । २ ततोऽपरे - बृ० । ३ ये तु दान प्रशंसन्ति, वधमिच्छन्ति प्राणिनाम् । ये चैतत् प्रतिषेधयन्ति वृत्तिच्छेदं कुर्वन्ति ते ॥१॥
1
॥३७०॥