________________
1
११६५:
आचा० प्रदी०
PEOSEXMOCREATOR
549-6--
भावतोऽरक्तोऽद्विष्टः, तथा 'विभए' धर्ममाचक्षाणो विभजेत्-द्रव्यादिभिः आक्षेपिण्यादिकथाविशेषैर्वा प्राणातिपातादिविशेषैर्वा धर्म विभजेत् , यदि वा कोऽयं पुरुषः कश्च नतो देवताविशेषमभिगृहितोऽनभिगृहितो वा? एवं विभजेत् , तथा 'किट्टे' कीर्तयेद् व्रतानुष्ठानफलं, कोऽसौ ? वेदविद-आगमवित् ।
स पुनः केषु निमित्तेषु कीर्तयेदित्याह-'से उढिएसु वा स-आगमवित् स्वसमयपरसमयज्ञः उत्थितेषु वा-भावोत्थानेन । यतिषु, वा शब्दः पक्षान्तरद्योतकः, पार्श्वनाथशिष्येषु चतुर्यामोत्थितेष्वेव वर्धमानतीर्थाचार्यादिः पश्चयामं धर्म प्रवेदयेत् , I स्वशिष्येषु वा सदोत्थितेष्वज्ञातज्ञापनाय धर्म प्रवेदयेत् , अनुत्थितेषु वा श्रावकादिषु शुश्रूषमाणेषु धर्म श्रोतुमिच्छत्सु गुर्वादेः पर्युपास्तिं कुर्वत्सु वा धर्म प्रवेदयेत् । किम्भूतं धर्म प्रवेदयेदित्याह-'संति विरति उवसमं'ति शमनं शान्तिरहिंसा तामाचक्षीत, तथा विरतिमनेन च मृषावादादिशेषव्रतसङ्ग्रहः, तथा उपशम-क्रोधजयादनेन चोत्तरगुणसङ्ग्रहः, तथा निवृतिः-निर्वाणं मूलगुणोत्तरगुणयोरहिकामुष्मिकफलभूतमाचक्षीत, तथा शौच-सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणं, आजवंमायावक्रतापरित्यागात् , मार्दवं-मानस्तब्धतापरित्यागात् , लाघवं बाह्याभ्यन्तरग्रन्थपरित्यागात् , कथमाचक्षीत ? अनतिपत्य यथावस्थितं वस्त्वागमाभिहितं तथाऽनतिक्रम्य केषां कथयति ? 'सव्वेसिं पाणाणं ' सर्वेषां प्राणिनां दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपञ्चेन्द्रियाणां, सर्वेषां भूतानां मुक्तिगमनयोग्यत्वेन' भव्यत्वेन भूतानां-व्यवस्थितानां, सर्वेषां जीवानां संयमजीवितेन जीवतां जिजीविषूणां, सर्वेषां सत्वानां-तिर्यनरामराणां संसारे क्लिश्यमानतया करुणास्प
१ योग्येन-पा०।
14
RECE%E469
॥३६८॥