SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ भाचा श६४ प्रदी० 'पुढा वेगे' एके-अपरिमितमतयो गौरवत्रिकप्रतिबद्धाः-स्पृष्टाः परीपहेनिवर्तन्ते संयमात् लिङ्गाद्वा, किमर्थ ? 'जीवितस्सेव' जीवितस्यैव-असंयमाख्यस्य कारणात् निमित्तात् सुखेन वयं जीविष्याम इतिकृत्वा सावद्यानुष्ठानतया संयमानिवर्तन्ते । तथाभूतानां च यत्स्यात्तदाह-'णिक्खतं पि' तेषां गृहपाशानिष्क्रान्तमपि' ज्ञानदर्शनचारित्रमूलगुणान्यतरोपघाताददुनिष्क्रान्तं भवति । तद्धर्माणां च यत्स्यात्तदाह-'बालवयणिज्ज'त्ति हुहेतौ यस्मादसम्यगनुष्ठानात् दुनिष्क्रान्तास्तस्माबाळानामपि-प्राकृतपुरुषाणामपि वचनीयाः-गर्हणीयास्ते नराः। किश्च 'पुणो पुणो' पौनःपुन्येनारहट्टघटीयन्त्रन्यायेन | जाति:-उत्पत्तिस्तां कल्पयन्ति, किम्भूतास्ते इत्याह-'अधे संभवंता' अधःसंयमस्थानेषु सम्भवन्तो वर्तमाना अविद्यया वाऽधो वर्तमानाः विद्वांसो वयमित्येवं मन्यमाना लघुतयाऽऽत्मानं व्युत्कर्ष येयु:-आत्मनः श्लाघां कुर्वते, यत्किञ्चिज्जानानोऽपि मानोन्नतचाद्रससातगौरवबहुलोऽहमेवात्र बहुश्रुतो यदाचार्यों जानाति तन्मयाऽल्पेनैव कालेनाधीतमित्येवमात्मानं व्युत्कर्षयेत् । नात्मश्लाघतयैवासते, परानप्यपवदेयुरित्याह–'उदासीणे' रागद्वेषरहिता मध्यस्था बहुश्रुतत्वे सत्यप्युपशान्तास्तान् स्खलितप्रेरणोधतान् परुषं वदन्ति, [तद्यथा-] स्वयमेव तावत्कृत्यमकृत्यं वा जानीहि, ततोऽन्येषामुपदेक्ष्यसि । 'पलियंति अनुष्ठानं तेन पूर्वाचरितेनानुष्ठानेन तृणाहारादिना प्रकथयेद्-एवम्भूतस्त्वम् , अथवा कुण्टमुण्टादिभिर्गुणैमुखविकारादिभिर्वा प्रकथयेत् । किम्भूतैः-अविद्यमानैः । उपसंहरनाह–'तं वा मेहावी' तं वा धर्म-श्रुतचारित्राख्यं मेधावी-मर्यादाव्यवस्थितो जानीयात् ॥१८८॥ १ गृहवासान्नि-वृ० । २ तद्धर्मणां-वृ० । ३ सत्युप०-पा० । 15EGESSI SHSG मा०३१ ॥३६१॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy