________________
११६४
आचा० प्रदी.
सोऽसभ्यवादप्रवृत्तो बाली गुर्वादिना यथाऽनुशास्यते तथा दर्शयति--
अधम्मट्टी तुमं सि णाम बाले आरंभट्ठी अणुवयमाणे, हणमाणे, घातमाणे, हणतो यावि समणुजाणमाणे । घोरे धम्मे उदीरेति । उवेहेति णं अणाणाए । एस विसण्णे वित्तद्दे वियाहिते त्ति बेमि (सू. १८९) ___'अधम्मट्टी' यतो नाम त्वमधर्मार्थी अतोऽनुशास्यसे, कुतोऽधर्मार्थी ? यतो बालः, कुतो बालो ? यत आरम्भार्थी सावद्यारम्भप्रवृत्तः, कुतः आरम्भार्थी ? यतः प्राण्युपमदेवादाननुवदन् एतद् वषे, तद्यथा-जहि प्राणिनोऽपरैरेवं घातयन् , घ्नतश्चापि समनुजानासि, किञ्चैवं ब्रवीपि तद्यथा--'घोरे धम्मे' घोरो-भयानको धर्मः सर्वाश्रवनिरोधाददुरनुचरः उत्प्राबल्येनेरित:-कथितः तीर्थकरादिभिरित्येवमध्यवसायी भवांस्तमनुष्ठानत उपेक्षते-उपेक्षां विधत्ते, 'ण'-वाक्यालङ्कारे, अनाज्ञया-तीर्थकरगणधरानुपदेशेन स्वेच्छया प्रवृत्तिं दर्शयति-एष-अनन्तरोक्तोऽधर्मार्थी बाल आरम्भार्थी प्राणिनां हन्ताघातयिता घ्नतोऽनुमन्ता धर्मोपेक्षक इति, विषण्णः कामभोगेषु, विविधं तदंतीति विती-हिंसकः, इत्येवंरूपस्त्वमेष व्याख्यात इत्यतोऽहं ब्रवीमि-त्वं मेघावी धर्म जानीयाः॥१८९॥
एतच्च वक्ष्यमाणमहं ब्रवीमीत्यत आह--
AAAAAAAA
ला॥३६॥