________________
१।६।४
आचा प्रदी.
SEARCASEAECA
इत्यादिक्रमेगाध्यापिताः शिष्याश्चारित्रं ग्राहिताः, यथा-युगमात्रदृष्टिना गन्तव्यम् , कूर्मवत्सङ्कुचिताङ्गेन भाव्यमित्येवं शिक्षा ग्राहिताः, कैः ? तैर्महावीरैः-तीर्थकरगणधराचार्यादिभिः, किम्भूतैः ? -प्रज्ञावद्भिर्जानिभिः, ते तु शिष्याः आचार्यादीनामन्तिके-समीपे प्रज्ञानं-श्रुतज्ञानं, उपलभ्य बहुश्रुतीभूताः प्रबलमोहोदयात् त्यक्त्वोपशमं ज्ञानलवोत्तम्भितगर्वाध्माता: पारुष्यं-परुषतां समाददति-गृह्णन्ति, तद्यथा-परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह-त्वं न जानीषे न चैषां शब्दानामयमों [यो] भवताऽभाणि, अपि च-कश्चिदेव मादृशः शब्दार्थनिर्णयापालं, न सर्व इत्यादि । किश्च'वसित्ता बंभचेरंसि' एके पुनब्रह्मचर्य-संयमस्तत्रोषित्वा तामाज्ञां-तीर्थकरोपदेशरूपां नो इति मन्यमानाः-न बहु मन्यमानाः सातागौरवबाहुल्यात् बाकुशिकतामालम्बन्ते, 'आघायं तु' आख्यातमेतत् कुशीलविपाकादिकं श्रुत्वा निशम्य-अवबुध्य च शास्तारमेव परुष वदन्तीति सम्बन्धः । किमर्थं तहि श्रृण्वन्तीति चेत्तदाह--'समण्णुण्णा जीविस्सामो' संमनोज्ञा-लोकसम्मता जीविष्याम इति कृत्वा प्रश्नव्याकरणाथै शब्दशास्त्रादीनि शास्त्राण्यधीयन्ते, अथवा समनोज्ञा-उद्युक्तविहारिणः सन्तो जीविष्यामः संयमजीवितेनेत्येवं निष्क्रम्य,
पुनर्मोहोदयादसम्भवन्तः-ते गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे न सम्यग्भवन्तो-नोपदेशे वर्तमाना विविध दह्यमानाः कामैद्धा गौरवत्रिकेऽध्युपपन्नाः विषयेषु, _ समाधि-इन्द्रियप्रणिधानमाख्यातं तीर्थकरादिभिस्त अजोषयन्तः-असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण | प्रेर्यमाणा अपि तच्छास्तारमेव परुष वदन्ति-नास्मिन् विपये भवान् किञ्चिजानाति, यथाऽहं सूत्रार्थ शब्दं गणितं निमित्तं
ॐ ॐ
| ॥३५८॥