________________
आचां०
प्रदी०
पूर्वेऽह्नि एकैन तापसेनोद्धुष्टं यथा भोस्तापसाः ! कल्येऽनाकुट्टिर्भविता, तदद्यैव कुश - कुसुम-समित्-कंद-मूल-फलाद्याहरणं कुरुत इत्येतच्च [आकर्ण्य] धर्मरुचिना जनकः पृष्टस्तात ! केयमना कुट्टिनम ? तेनोक्तं पुत्र ! लतादीनामच्छेदनं तद्द्यमावास्यादिके विशिष्टे पर्वदिवसे न वर्तते, सावद्यत्वाच्छेदनादिक्रियायाः श्रुत्वा चैतदसावचिन्तयत् - यदि पुनः सर्वदाऽनाकुट्टिः स्यात्तदा शोभनं भवेत्, एवमध्यवसायिनस्तस्यामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत् तेन चाभिहिताः -'किमद्य भवतामनाकुट्टिने जाता ? येनाटवीं प्रस्थिताः, ' तैरभिहितम् -' यथाऽस्माकं यावज्जीवमनाकुट्टि' रित्यभिधायातिक्रान्ताः साधवः, तस्य च तदाकयै हापोहविमर्शेन जातिस्मरणमुत्पन्नं - यथाऽहं जन्मान्तरे प्रवज्यां कृत्वा देवलोके सुखमनुभूय इहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्या - जातिस्मरणरूपया विज्ञात, प्रत्येकबुद्धश्च जातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति १ ।
परव्याकरणे विदमुदाहरणम्- गौतमस्वामिना भगवान् पृष्टः - किमिति मे केवलज्ञानं नोत्पद्यते ?, भगवता व्याहृतं - 'भो गौतम ! भवतोऽतीव ममोपरि स्नेहोऽस्ति, तद्वशात्,' तेनोक्तं- 'भगवन्नेवमेतत् किं निमित्तः पुनरसौ मम भगवदुपरि स्नेहः ?' ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः 'चिरसंसिद्धोऽसि मे गोयमा ! चिरपरिचिओसि मे गोय" [ भगवतीसूत्र - शतक १४ उद्देश ७ सूत्र २] त्येवमादि, तच्च तीर्थकृद्व्याकरणमाकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूदिति २ ।
१ चिरसंसृष्टोऽसि मया गौतम । चिरपरिचितोऽसि मम गौतम !
१।१।१
॥ १४ ॥