SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० %3A% ECENECTECAR च ज्ञानं भवति, तथा प्रतिविशिष्टदिगागमनपरिज्ञानाऽनन्तरमे नेपामेतदपि' ज्ञानं भवति यथा-अस्ति कोऽस्य शरीरकस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षण उपपादुको-भवान्तरसंक्रान्तिभाग असर्वगतो भोक्ता मूर्तिरहितोऽविनाशी शरीरमात्रव्यापीत्यादिगुणवानात्मेति । तथाऽस्ति च ममात्मा, योऽमुष्या दिशोऽनुदिशश्च सकाशाद् अनुसञ्चरति-गतिप्रायोग्यकर्मोपादानादनु -पश्चात् सञ्चरत्यनुसश्चरति, दिग्विदिगागमनं भावदिगागमनं वा स्मरतीत्यर्थः । साम्प्रतं सूत्रावयवेन पूर्वसूत्रोक्तमेवार्थमुपसंहरति-सर्वस्या दिशः सर्वस्याश्चानुदिशो य आगतोऽनुसञ्चरतीति सः 'अह'मित्यात्मोल्लेखः, अहं प्रत्ययग्राह्यत्वादात्मनः, अनेन च पूर्वाद्याः प्रज्ञापकदिशः सर्वा गृहीताः भावदिशश्चेति । ___ सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्यर्थ त्रयो द्रष्टान्ताः प्रदर्श्यन्ते, तद्यथा-वसन्तपुरे नगरे जितशत्रु राना, धारिणी महादेवी, तयोर्धर्मरुच्यभिधानः सुतः, स च राजाऽन्यदा तापसत्वेन प्रवजितुमिच्छुर्धर्मरुचिं राज्ये स्थापयितुमुद्यतः, धर्मरुचिना माता पृष्टा-'किमिति तातो राज्यं त्यजति ?' तयोतं-किंमनया चपलया नरकादिसकलदुःखहेतुभूतया स्वर्गापवर्गमार्गार्गलया परमार्थत इहलोकेऽप्यभिमानमात्रफलयाऽतो विहायैनां सकलसुखसाधनं धर्म कर्तुमुद्यतः, 'धर्मरुचिस्तदाकर्योक्तवान् -यये किमहं तातस्यानिष्टो ? येनैवंभूतां सकलदोषाश्रयणीयां मयि नियोजयति, सकलकल्याणहेतोधर्मात्प्रच्यावयतीत्यभिधाय पित्राऽनुज्ञातस्तेन सह तापसाश्रममगात् , तत्र च सकलां तापसक्रियां यथोक्तां पालयन्नास्ते, अन्यदाऽमावास्यायाः १०षां तदपि-पा० । २ दिग्विदिशां गमन-वृ०। ३ अणुसंसरह इति पाठान्तरेण स्मरतीत्येतदर्थो गृहीतः । ५ नारकादि०-३० । CESSOROCCO E मा०२ ॥१३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy