________________
१११११
आचा प्रदी०
वाइए, जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरति, सब्बाओ दिसाओ सव्वाओ
अणुदिसाओ सोहं (सू. ४) स इति प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान् , यदिति प्राग्निर्दिष्टं दिग्विदिगागमनं, तथा कोऽहमभूवमतीतजन्मनि देवादिः,कोऽहं प्रेत्य देवादिर्भविष्यामीति परामृश्यते जानीयाद-आगरछेत् ।
AAAAAAA%
इदमुक्तं भवति-न कश्चिदनादौ संसृतौ पर्यटनसुमान् दिगागमनादिकं जानीयात् , यः पुनर्जानीयात् स एवं 'सह सम्मुइयाए' आत्मना सह सदा या सन्मतिर्वर्तते तया सन्मत्या कश्चिज्जानीते, यदि वा स्वमत्या वा, सा पुनः सन्मतिः स्वमतिर्वाऽवधि-मन:पर्याय केवलज्ञान-जातिस्मरणभेदाच्चतुर्विधा, तत्र जातिस्मरणं स्वाभिनिबोधिकज्ञानविशेषः, तदेवं चतुर्विधया मत्या कश्चिदात्मनो विशिष्टदिग्गत्यागती जानाति, कश्चिच्च परः-तीर्थकृत्सर्वज्ञः तस्यैव परमार्थतः परशब्दवाच्यत्वात् , तस्य व्याकरणम्-उपदेशस्तेन जीवांस्तभेदांश्च-पृथिव्यादीन गत्यागती च जानाति, अपरः पुनरन्येषां तीर्थकरव्यतिरिक्तानामतिशयज्ञानिनामन्तिके जानाति ।
तत् सूत्राश्य वेन दर्शयति-तद्यथा-पूर्वस्या दिश आगतोऽहमस्मि, एवं द क्षगस्याः पश्चिमायाः उत्तरस्या उर्वदिशोऽघोदिशोऽन्यतरस्या दिशोऽनुदिशो वाऽऽगतोऽहमस्मीत्येवमे केषां विशिष्टक्षयोपशमादिमतां, तीर्थकराऽन्यातिशयज्ञानिबोधितानां