________________
आचा० प्रदी०
श१११
इओ चुते इह पेच्चा भविस्सामि ? (सू. ३)
अस्ति-विद्यते ममास्य शरीरस्याधिष्ठाता, अतति गच्छति सततं गतिप्रवृत्त आत्मा-जीवोऽस्तीति, किंभूतः ? औपपातिका-उपपातो जन्मान्तरसंक्रान्तिः, उपपाते भव औपपातिक इत्यनेन संसारिणः स्वरूपं दर्शयति, स एवम्भूत आत्मा ममास्ति नास्तीति चैवम्भूता संज्ञा केषाश्चिदज्ञानावष्टब्धचेतसां न जायते, तथा कोऽहं नारक-तिर्यग्-मनुष्यादिरासं पूर्वजन्मनि ? को वा देवादिः ? इतो मनुल्यादेर्जन्मनः च्युतो-विनष्टः इह-संसारे प्रेत्य-जन्म न्तरे भविष्यामि-उत्पत्स्ये इति, एषा च संज्ञा न भवतीति ।। ३ ॥
'इहमेगेसिं नो नायं भवती' त्यनेन केपाश्चिदेव संज्ञानिषेधात् केपाश्चित्तु भवतीत्युक्तं भवति, तत्र सामान्यसंज्ञायाः प्रतिप्राणिप्रसिद्धत्वात् तत्कारणपरिज्ञानस्येहाकिश्चित्करत्वाद्विशिष्टसंज्ञायास्तु केशञ्चिदेव भावात् विशिष्टसंज्ञायाः कारणं सूत्रकृदर्शयितुमाह
से ज्जं पुण जाणेज्जा सह सम्मुइयाए परवागरणेणं अण्णेप्ति वा अंतिए सोचा, तं जहा-पुरस्थिमातो वा दिसातो आगतो अहमंसि जाव अन्नयरीतो दिसातो वा अणुदिसातो वा आगतो अहमंसि, एवमेगेसिं णायं भवति-अत्थि मे आया उव
॥१२॥