SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. RSARVEER-1-75% व्याख्या-मनुष्याश्चतुभेदास्तद्यथा-सम्मूर्छनजाः, कर्मभूमिजा, अर्मभूमिजाः, अन्तरद्वीपजाश्चेति, तथा तिर्यश्चो द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति चतुर्धा, कायाः पृथिव्यप्तेजोवायवश्चत्वारः, तथाऽग्र-मूल-सन्ध-पर्वबीजाश्चत्वार एव, एते षोडश देवनारकप्रक्षेपादष्टादश, एभिर्भावर्भवनाजीवो व्यपदिश्यत इति भावदिगष्टादशभेदेति ।। तत्रासंज्ञिनां नैपोऽवबोधोऽस्ति, संज्ञिनामपि केषाश्चिद्भवति यथाऽहममुष्या दिशः समागत इहेति, 'एवमेगेसि णो | णातं भवती' त्येवमनेन प्रकारेण प्रतिविशिष्टदिगविदिगागमनं नैकेषां विदितं भवतीत्येतदेव नियुक्तिकृदाह - केसिंचि नाणसण्णा अस्थि केसिंचि नस्थि जीवाणं । कोऽहं परंमि लोए आसी कयरा दिसाओवा? ॥ [आ. नि. गाथा-६३] व्याख्या-केपाश्चिज्जीवानां ज्ञानावरणीयक्षयोपशमवतां ज्ञानसंज्ञाऽस्ति, केषाश्चित्तु तदावृतिमतां न भवतीति । यादृशी संज्ञा न भवति तां दर्शयति-कोऽहं परस्मिन् लोके जन्मनि मनुष्यादिरासम् ? अनेन भावदिगुपात्ता, कतरस्या वा दिशः समायात ? इत्यनेन तु प्रज्ञापकदिग् गृहीता, यथा कश्चिन्मदिराघूणितलोचनोऽव्यक्तमनोविज्ञानो रथ्यानिपतितच्छाकृष्टश्वगणावलिह्य मानवदनो गृहमानीतो मदात्यये न जानाति कुतोऽहमागत इति, तथा प्रकृतो मनुष्यादिरपीति भावार्थः॥२॥ न केवलमेषैव संज्ञा नास्ति अपराऽपि नास्तीति सूत्रकृदाह अस्थि मे आया उववाइए, णस्थि मे आया उववाइए, के अहं आसी ? के वा RESISTIAGURIN ॥१०॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy