________________
श६।३
आचा० प्रदी०
HAGAVARANASI
जहा से दीवे असंदीणे एवं से धम्मे आरियपदेसिए । तं अणवकखमाणा अणतिवा- 2 तेमाणा दइता मेधाविणो पंडिता।
एवं तेसिं भगवतो अणुट्ठाणे जहा से दियापोते। एवं ते सिस्सा दिया य रातो य अणुपुव्वेण वायित त्ति बेमि (सू. १८४)
॥धुयस्स ततिओ उद्देसओ समत्तो॥ 'विरय'ति विरतमसंयमादु भिक्षणशीलं भिक्षु रीयन्तं-निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्यः प्रशस्तेष्वपि वर्तमानं चिररात्रं-प्रभूतं कालं संयमे उषितश्चिररात्रोषितस्तमेवंगुणयुक्तम् अरतिः-संयमोद्विग्नता तत्र-तस्मिन् संयमे प्रवर्त्तमानं किं[वि] धारयेत् ? -कि प्रतिस्खलयेत् ?, ओमित्युच्यते, विचित्राकर्मपरिणतिः किं न कुर्यात् ? अथवा लघुकर्माणं कथमरतिर्विधारयेदित्याह-'संधेमाणे'क्षणे क्षणेऽव्यवच्छेदेनोत्तरोत्तरं संयमस्थानं सन्दधानः सम्यमुत्थितः समुत्थितः यथाख्यातचारित्राभिमुखस्तम रतिः कथं विधारयेत् ।
स चैवम्भूतो न केवलमात्मनस्त्राता अपरेषामप्यरतिविधारकत्वात् त्राणाय भवतीति दर्शयति--'जहा से दीवे' द्विर्गता आपोऽस्मिन्निति द्वीपः, स च द्रव्य भावभेदात् द्वेधा--तत्र द्रव्यद्वीपो द्विधा-सन्दीनोऽसन्दीनश्च, यो हि पक्षमासादावदकेन प्लान्यते स सन्दीनः, विपरीतस्त्वसन्दीन: सिंहलद्वीपादिः, यथा सांयात्रिकाः असन्दीनद्वीपं समवाप्याश्वसन्ति एवं
॥३५४॥