________________
आचा०
प्रदी
मुक्तिगमनयोग्यानां पश्य - अवधारय, यत्तणस्पर्शादिकं पूर्वमभिहितं तदधिसोढव्यमिति सम्यकरणेन स्पर्शातिसहनं कृतमेतदिति जानीहि ॥ १८२ ॥
एतच्चाधिसहमानानां यत्स्यात्तदाह
आगतपणाणा किसा बाहा भवंति पयणुए य मंससोणिए । विस्सेर्णि सति मुत्र वियाहिते ति बेमि (सू. १८३)
| कट्टु परिणाय 'आगतपण्णाणाणं' आगतं प्रज्ञानं पदार्थाविर्भावकं येषां ते तथा तेषां तपसा परीषहातिसहनेन च कृशा बाहवः- भुजा भवन्ति, कर्मक्षपणायोत्थितस्य शरीरमात्रपीडाकारिणः परीषहोपसर्गान् सहायानिति मन्यमानस्य न मनः पीडोत्पद्यते, शरीरपीडा तु भवत्येवेत्याह- 'पयणुण्य'त्ति मांसं च शोणितं च मांसशोणिते, द्वे अपि प्रतनुके रुक्षाहारत्वादल्पाहारत्वाच्च भवतः । तथा 'विस्से णि' ति संसार श्रेणी - संसारावतरणी रागद्वेषकषाय संततिस्तां क्षान्त्यादिना विश्रेणीं कृत्वा, तथा परिज्ञायज्ञात्वा समत्वभावनया एष उक्तलक्षणो मुनिः तीर्णः संसारसागरं, एष एव मुक्तः सर्वसङ्गेभ्यो, विरतः [सर्वसावधानुष्ठानेभ्यो ] एष एव व्याख्यातो नापरः । ब्रवीमीति पूर्ववत् ॥ १८३॥
तं च तथाभूतं मुनिमरतिरभिभवेत्, अचिन्त्यसामर्थ्यात् कर्मणः, इत्याह
विरयं भिक्खु तं चिरतोसीयं अरती तत्थ किं विधारए ? संघेमाणे समुट्ठिते ।
१।६।३
॥ ३५३॥