________________
O
याचा प्रदी०
REAMINERASHASANSARESHESARIES
भावात् तृणशय्याशायिनं तृणानां स्पर्शाः परुषास्तुणस्पर्शास्ते कदाचित् स्पृशन्ति, तांश्च सम्यग-अदीनमनस्कोऽतिसहते, | शीतस्पर्शाः स्पृशन्ति, तेजस्पर्शा:-उष्णस्पर्शा:स्पृशन्ति, दंशमशकस्पर्शः स्पृशन्ति, 'एगतरे' इति एतेषां परीषहाणामेकतरेऽविरुद्धा दंशमशकादयः प्रादुर्भवेयुः, शीतोष्णादिपरीषहाणां वा परस्परविरुद्धानामन्यतरे प्रादुष्प्युः, 'विरूवरूवे'त्ति विरूपंबीभत्सं स्वरूपं येषां ते विरूपरूपाः, स्पर्शा:-दुःख विशेषाः, तान् सम्यकरणेनापध्यानरहितोऽधिसहते, कोऽसौ ? अचेलः, किमभिसन्ध्य परीषहान् अधिसहत इत्यत आह-'लाघवं आगममाणे' लधोर्भावो लाघवं, द्रव्यतः उपकरणलाघवं भावतः | कर्मलाघवं आगमयन्-बुद्ध्यमानः परीषहोपसर्गान् सहते । 'तवे से 'से' तस्य उपकरणलाघवेन कर्मलाघवं कर्मलाघवेनोपकरणलाघवमागमयतस्तृणादिस्पर्शानधिसहमानस्य तपः-कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति-सम्यग् आभिमुख्येन सोढं भवति । 'जहेत' यथा-येन प्रकारेण इदं-यदुक्तं वक्ष्यमाणं चैतद्भगवता वर्धमानस्वामिना प्रवेदितं, 'तमेव तद्उपकरणलाघवमाहारलाघवं च अभिसमेत्य-ज्ञात्वा, सर्वत इति द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः आहारोपकरणादौ, क्षेत्रतः सर्वत्र ग्रामादौ, कालतोऽहनि रात्रौ वा दुर्भिक्षादौ वा सर्वात्मना, भावतः कृत्रिमकल्काद्यभावेन, 'सम्मत्तमेव' सम्यक्त्वमेव सम्यगभिजानीयात्, तीर्थकरगणधरोपदेशात् सम्यक्कुर्यात् ।
RGASHAER
'एवं तेसिं'ति एवमित्यचेलतया पर्युषितानां तृणादिस्पर्शानधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिकारिणां चिररात्रं-यावज्जीचं, पूर्वाणि-प्रभूतानि वर्षाणि रीयमाणानां-संयमानुष्ठानेन गच्छतां 'दवियाणं पास'त्ति द्रव्याणां-भव्यानां
॥३५२॥