SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आचा० A- १६३ प्रदी० AEAAAAAAAA ___अभिसमेच्चा सव्वतो सव्वत्ताए सम्मत्तमेव समभिजाणिया। ___ एवं तेसि महावीराणं चिरराई पुब्वाइं वासाइं रीयमाणाणं दवियाणं पास अधियासिय (सू.१८२) ___ 'एतं खु'त्ति एतत्पूर्वोक्तं वक्ष्यमाणं वा खुः-वाक्यालङ्कारे, आदीयते इत्यादानं-कर्म, तच्च धर्मोपकरणातिरिक्तं वस्त्रादि झोषयतीति' सम्बन्धः, सदा स्वाख्यातधर्मा-संसारभीरुत्वाद्यथारोपितभारवाही, विधृतः-सम्यक् स्पृष्टः कल्प-आचारी | येन स तथा, स एवम्भृतो मुनिरादानं झोषयित्वा' आदानमपनेष्यति । कथं पुनस्तदादानं वस्त्रादि स्यायेन तत् झोषयितव्यं भवेदित्याह-'जे अचेले' यः साधु स्य चेलं-वस्त्रमस्तीत्यचेल:तस्य भिक्षोः नैतद्भवति-नैतत्कल्पते यथा परिजीणं मे वस्त्रमचेलकोऽहं भविष्यामि, ततश्च शीताद्यदितस्य किं शरणं मे स्याद् वस्त्रं विना ? अतोऽहं कश्चन श्रावकादि[क] प्रत्यग्रं वस्त्रं याचिष्ये, तस्य वा जीर्णस्य वस्त्रस्य सन्धानाय सूत्रं याचिष्ये, सूचिं याचिष्ये, अवाप्ताभ्यां सूचिसूत्राभ्यां जीर्णवस्त्ररन्धं सन्धास्यामि पाटितं सेविष्यामि, लघु वा सदपरशकललगनत उत्कर्षयिष्यामि, दीर्घ वा सत्खण्डापनयनतो व्युत्कर्षयिष्यामि, एवं च कृतं सत्परिधास्यामि तथा प्रावरिष्यामीत्याद्यार्तध्यानं न भवति । _____ तस्य चाऽचेलस्याल्पचेलस्य वा तृणादिस्पर्शसद्भावे यद्विधेयं तदाह-'अदुवा तत्थ' तस्य हि [अचेलतया] परिवसतो जीर्णवस्त्रादिकतमपध्यानं न भवति, अथवैतत्स्यात्-तत्राचेलत्वे पराक्रममाणं पुनस्तं साधुमचेलं क्वचिदग्रामादौ त्वक्त्राणा १० षयितेति-वृ० । २ शोषयितेति-बृ०। AGRAHARSHIR-CASRAE ॥३५॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy