________________
आचा०
प्रदी०
भावसन्धानायोत्थितं साधुमवाप्यापरे प्राणिनः समाश्वस्युः, अथवा भावद्वीप:- सम्यक्त्वं तच्च प्रतिपातित्वादोपशमिकं क्षायोपशमिकं च सन्दोनो भावद्वीपः क्षायिकं त्वसन्दीनः तं द्विविधमप्यवाप्य' परीतसंसारत्वात् प्राणिन आश्वसन्ति, अथवा भावदीपः सन्दीनः श्रुतज्ञानमसन्दीनस्तु केवलज्ञानं तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येव यदिवा भावद्वीपो धर्मः यथासन्दीनो द्वीपो भग्नपोतानां बहूनां जन्तूनां शरण्यतयाऽऽश्वास हेतुर्भवत्येवम सावपि धर्मस्तीर्थकरप्रणीतः कषतापच्छेद निर्घटितोऽसन्दीन आश्वासभूमिर्भवति । तस्य धर्मस्यानुष्ठायिनः कीदृशाः सन्तीत्याह -- 'ते अणवकखमाणा' ते - साधवो भावसन्धानोद्यताः संयमारतेः प्रणोदका मोक्षनेदिष्ठा भोगाननवकाङ्क्षन्तो धर्मे सम्यगुत्थानवन्तः स्युः तथा 'अणतिवातेमाणा' प्राणिनोऽनतिपातयन्तः, उपलक्षणात् शेषमहाव्रतग्रहणमायोज्यं, 'दहता मेधाविणो' कुशलानुष्ठानप्रवृत्तत्वाद्दयिताः सर्वलोकानां मेधाविनो मर्यादाव्यवस्थिताः पण्डिताः- पापोपादानपरिहारितया सम्यक्पदार्थज्ञा धर्मचरणायोत्थिता भवन्ति ।
पुनस्तथाभूतज्ञानाभावात् विवेकविकलास्ते आचार्यादिभिः सम्यगनुपाल्या यावद्विवेकिनोऽभूवन्निति दर्शयितुमाह-'एवं सिं'ति एवम् उक्तविधिना तेषाम् अपरिकर्मितमतीनां भगवतो - वीरवर्धमानस्वामिनो धर्मे सम्यगनुत्थाने सति तत्परिपालनतः सदुपदेशदानेन परिकर्मितमतित्वं विधेयम् । अत्रैव दृष्टान्तमाह-- 'जहा से दियापोते' द्विजः - पक्षी तस्य पोतः बालः स यथा तेन द्विजेन गर्भप्रसवादारभ्याण्डको च्छूनोच्छु नतर भेदादिकास्ववस्थासु यावन्निप्पन्न पक्षस्तावत्पाल्यते एवमाचार्येणापि शिष्यः दोक्षादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन तावदनुपाल्यते यावद्गीतार्थोऽभूत्, 'एवं ते
१० मवाप्य । २ भावद्वीपः पा० । ३०परिहारतया पा० ।
१।६।३
।। ३५५॥