SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० दण्डादिभिर्हतो वा लुञ्चितो वा केशोत्पादनतः पूर्वकृत कर्मपरिणत्युदयादेत देवावगच्छन् सम्यक् तितिक्षमाणः परिव्रजेत् । कथं पुनर्वाग्भिराक्रुश्यत इत्याह- 'पलियं' कर्म जुगुप्सितमनुष्ठानं तेन पूर्वाचरितेन कुविन्दादिना प्रकध्य जुगुप्सते, तद्यथा-भो कालिक ! प्रव्रजित ! स्वमपि मया साद्धमेवं जल्पसि, अथवा जकारचकारादिभिरपरैः [प्रकारैः ] प्रकथ्य निन्दां विधत्ते, एभिर्वा वक्ष्यमाणैः प्रकारैरित्याह- 'अत हेर्हि' अतथ्यैः - वितथैरसद्भूतैः शब्दैश्वौरस्त्वं पारदारिक इत्येवमादिकैः स्पर्शश्च असद्भूतैः साधोः कर्तुमयुक्तैः करचरणच्छेदनादिभिः स्वकृतादृष्टफलमित्येतत् सङ्ख्याय - ज्ञात्वा तितिक्षमाणः परित्रजेत् । परीषदाचानुकूल प्रतिकूलतया भिन्ना इति दर्शयति- ' एगतरे' एकतरान् - अनुकूलान् अन्यतरान् प्रतिकूलान् [ परीषहान् ] उदीर्णान् ज्ञात्वा सयक् तितिक्षमाणः परिव्रजेत् यदिवाऽन्यथा परीषदाणां द्वैविध्यं [ इत्याह ] - 'जे य हिरी' ये च परीषदाः सत्कारपुरस्कारादयः साधोहरिणो-मन आह्लाद कारिणो ये तु प्रतिकूला' अहारिणो मनसोऽनिष्टा, यदिवा ह्रीरूपा: - याच्याSलादयः, अह्रीरूपा मनसव' लज्जाकारिणः शीतोष्णादयः, इति द्विरूपानपि परीषदान सम्यक् तितिक्षमाणः परिव्रजेत् ।। १८० ।। किञ्च -- चेच्च सव्वं विसोत्तियं फासे फासे समितदंसणे | १ ० कूलतया वृ० । २ ०अही मन० ब० । ११६/२ ॥३४६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy