________________
आचा० प्रदी०
१।६२
_ 'अहेगे'त्ति अथ-अनन्तरमेके विशुद्धपरिणामनया आसन्नापवर्गतया धर्म-श्रुतचारित्रात्मकं आदाय-गृहीत्वा वस्त्रपतद्ग्रहादिधर्मोपकरणसमन्विता धर्मक(च)रणेषु(सु)प्रणिहिताः परीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुरित्याह--'अप्पलीयमाणे' कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अनभिषक्ता धर्मचरणे दृढाः-तपःसंयमादौ द्रढिमानमालम्ब-18 माना धर्म चरन्तीति । किश्च-'सव्वं गेहि' सर्वा गृद्धि भोगकाङक्षां दुःखरूपतया ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया | परित्यजेत् ।
परित्यागे गुणमाह-'एस पण ते' एष इति कामपिपासापरित्यागी प्रकर्षण नतः-प्रणतः प्रवः संयमे कर्मधूननायां वा| महामुनिर्भवति नापरः, किश्च-'अतियच्च'त्ति अतिगत्य-अतिक्रम्य सर्वतः-सर्वैः प्रकारैः सङ्ग-सम्बन्धं पुत्रकलत्रादिजनितं कामानुषङ्ग वा, किं भावयेदित्याह-'ण महं अत्थिन मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति, तदभावाच्च इति-उक्तक्रमेणैकोऽहमस्मिन्-संसारोदरे, न चाहमन्यस्य कस्यचिदिति । एतदभावनाभावितश्च यत्कुर्यात्तदाह-'जयमाणे' अत्र-अस्मिन् मौनीन्द्रे प्रवचने विरतः सन् सावधानुष्ठानात् दशविधचक्रवालसामाचार्या यतमानः, कोऽसौ ? अनगार:प्रव्रजितः, एकत्वभावनां भावयन्नवमौदर्य सन्तिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रियोत्तरसूत्रेष्वपि लगयितव्या, किश्च'सव्वतो मुंडे' सर्वतः-द्रव्यतो भावतश्च मुण्डो रीयमाणः-संयमानुष्ठाने गच्छन् , किम्भूत इत्याह-'जे अचेले' योऽचेलोऽल्पचेलो जिनकल्पिको वा पर्युषित:-संयमे उद्युक्तविहारी अन्तप्रान्तभोजी, तदपि न प्रकामतयेत्याह-'संचिक्खति' संतिष्ठते अवमौदर्ये । न्यूनोदरतायां वर्तमानः कदाचित्प्रत्यनीकतया ग्रामकण्टकैस्तुद्ये तेत्याह-'से अकुट्टे वा' स-मुनिर्वाग्मिराक्रुष्टो वा
EGILEAGEERISICOGG
॥३४५॥