________________
आचा० प्रदी०
श६२
AAAAAAAAAAA
'त परकपतं' तम्-अवगततत्वं गृहवासपराङ्मुखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितकलत्रादयः परिदेवमाना माऽस्मान् परित्यज इति-एतत् ते कृपामापादयन्तो वदन्ति ।
किश्चापरं वदन्तीत्याह--'छंदोवणीता' छन्देनोपनीता:-छन्दोपनीताः तवाभिप्रायानुवर्तिनस्त्वयि चाभ्युपपन्नास्तदेवम्भूतानस्मान्माऽवमंस्था इत्येवमाक्रन्दकारिणो जनका-मातापित्रादयो रुदन्ति ।।
एवं च वदेयुरित्याह-'अतारिसे मुणी' न तादृशो मुनिर्भवति, न चौघं संसारं तरति येन मातापित्रादयस्त्यक्ताः। । स चाऽवगतसंसारस्वभावो यत्करोति तदाह-'सरणं तत्थ'त्ति न ह्यसावनुरक्तमपि बन्धुवर्ग तत्र-तस्मिन्नवसरे शरणं समेति । किमित्यसौ शरणं न समेतीत्याह'--'कहं नु नाम' कथं नु नामासौ तत्र-तस्मिन् गृहवासे रमेत् ? कथं गृहवासे द्वन्द्वैकहेतौ विघटितमोहकपाटः सन् रतिं कुर्यात् ?
उपसंहरन्नाह--एतत्-पूर्वोक्तं ज्ञानं सदा आत्मनि सम्यगनुवासयेः--व्यवस्थापयेः, इतिः-अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥१७७॥
॥ श्रीघूताध्ययने प्रथमोद्देशकप्रदीपिका समाप्ता ।।
卐 १०ण नैती०-पा० ।
AAPA
॥३४॥