SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आचा० ११६१ प्रदी. णालं पास | अलं तवेतेहिं । एतं पास मुणी ! महब्भयं । णातिवादेज्ज कंचणं (सू. १७५) बहूनि दुःखानि कर्मविपाकापादितानि येषां ते तथा, हुः[यस्मात् ,] यस्मादेवं तस्मात्तत्राऽप्रमादवता भाव्यम् । किमित्येवं भूयोऽप्यपदिश्यत इत्याह-'सत्ता कामेहिं माणवा' यस्मादनादिभवाभ्यासेनागणितोत्तरपरिणामाः सक्ताः कामेषु-इच्छामदनरूपेषु मानवा, अतो न पुनरुक्तदोषः। कामासक्ताश्च यदाप्नुवन्ति तदाह-'अबलेण'त्ति बलरहितेन निःसारेणौदारिकेण शरीरेण प्रभङ्गुरेण-स्वत एव भङ्गशीलेन तत्सुखाधानाय कर्मोपचित्याऽनेकशो वधं गच्छन्ति ।। कः पुनः कामेषु रतिं कुर्यादित्याह-'अट्टे' मोहोदयादातः [सः] बहु दुःखं प्राप्तव्यमनेनेति बहुदुःख प्राणी इत्येनं कामानुषङ्ग बालो- रागद्वेषाकुलितः प्रकर्षण करोति ।। किश्च--'एते रोगे'त्ति एतान्-गण्डकुष्ठराजयक्ष्मादीन् रोगान् बहूनुत्पन्नानिति ज्ञात्वा तद्रोगवेदनयातुराः 'सन्तश्चिकित्साय प्राणिनः परितापयेयुः, 'लावकादिपिशिताशिनः किल क्षयव्याध्युपशमः स्यादि'त्यादिवाक्याकर्णनाज्जीविताशया गरीयस्यपि प्राण्युपमर्दे प्रवर्तेरन् , नैतदवधारयेयुः यथा-स्वकृतावन्ध्यकर्मविपाकोदयादेतत् , तदुपशमाचोपशमः, प्राण्युपमर्दचिकित्सया च किल्बिषानुषङ्ग एव ।। एतदेवाह-'णालं पास ।' पश्यैतद्विमलविवेकावलोकनेन नालं-न समर्थाश्चिकित्साविधयः कर्मोदयोपशमं विधातुं, यद्येवं ततः किं [कर्तव्यमिति दर्शयति-'अल तव' अलं-पर्याप्तं तव-सदसद्विवेकिनः एभिः-पापोपादानभूतैश्चिकित्साविधिभिः। १-०दनायातु०-पा० । ॐॐॐॐॐॐॐॐॐ ८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy