________________
श६१
RAIGA4%
A4-464
भाषालब्धिसम्पन्ना द्वीन्द्रियादयः, रसमनुगच्छन्तीति रसगा:-कटुतिक्तकषायादिरसवेदिनः संज्ञिन, इत्येवम्भूतः कर्मविपाकः संसारिणां सम्प्रेक्ष्य, उदके-उदकरूपा एव एकेन्द्रियादयो जन्तवः' पर्याप्ताऽपर्याप्तभेदेन व्यवस्थिताः, उदके चरन्तीत्युदकचरा:-पूतरकच्छेदनकलोडणकत्रसा मत्स्यकच्छपादयः, स्थलजा अपि केचन जलाश्रिता महोरगादयः पक्षिणश्च केचन तद्गतवृत्तयो द्रष्टव्याः, अपरे त्वाकाशगामिनः पक्षिणः।
इत्येवं सर्वेऽपि प्राणा:-प्राणिनोऽपरान् प्राणिनः आहारावर्थ मत्सरादिना वा क्लेशयन्ति-उपतापयन्ति । यद्येवं ततः किमित्यत आह-पास लोए' पश्य लोके-चतुर्दशरज्वात्मके, कर्मविपाकात्सकाशात् महद्भयं-नानागतिदुःखक्लेशविपाकात्मकमिति ॥ १७४॥ कर्मविपाकात्मकं महद्भयमित्याह'
बहुदुक्खा हु जंतवो। सत्ता कामेसु माणवा । अबलेण वहं गच्छंति सरीरेण पभंगुरेण । अट्टे से बहुदुक्खे इति बाले पकुव्वति ।
एते रोगे बहू णच्चा आतुरा परितावए । १०केन्द्रिया ज० -५।२०पाकाद्मह-बृ ।
ASIAAAAAAAAAEG
मा०२९
॥३३७॥