________________
आचा०
प्रदी०
'मधुमेह' ति मधुमेहो- वस्तिरोगः सविद्यते यस्यासौ मधुमेही, मधुतुल्यप्रस्राववान्, तत्र प्रमेहाणां विंशतिर्भेदास्तत्रास्यासाध्यत्वेनोपन्यासः, सर्व एव प्रमेहाः प्रायः सर्वदोषोत्थास्तथापि वाताद्युत्कटभेदाद्विंशतिभेदा भवन्ति, तत्र कफाद्दश : षट् पित्तात् वातजाश्चत्वारः, सर्वेऽपि चैतेऽसाध्यावस्थायां मधुमेहत्वमुपयान्ति १६ ॥ १४ ॥
तदेवं षोडशाऽप्येते - अनन्तरोक्ताः रोगा-व्याधयो व्याख्याताः अनुपूर्वशो - अनुक्रमेण, अथ- अनन्तरं 'णं' इति वाक्यालङ्कारे स्पृशन्ति-अभिभवन्ति आतङ्का- आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः स्पर्शाश्च - गाढप्रहारादिजनिता दुःखविशेषाः [असमञ्जसाः-] क्रमयौगपद्यनिमित्तानिमित्तोत्पन्नाः स्पृशन्तीति सम्बन्धः ॥ १५ ॥
न रोगातकैरेव केवलैर्मुच्यते, अन्यदपि यत्संसारिणोऽधिकं स्यात्तदाह - 'मरणं तेर्सि' तेषां कर्मगुरूणां गृहवासासक्तमानसानां रोगैः संक्लेशितानां मरणं प्राणत्यागलक्षण संप्रेक्ष्य पर्यालोच्य पुनरुपपातं च्यवनं च देवानां कर्मोदयात् संततं ज्ञात्रा तद्विधेयं येन गण्डादिरोगाणां मरणोपपातयोश्चात्यन्तिकोऽभावो भवति, किश्च परिपागं च सपेहाए' कर्मणां मिथ्यात्वाविरतिकषाय योगाहितानामवाधोचरकालमुदयावस्थायां परिपाकं च सम्प्रेक्ष्य- शारीरमानस दुःखोत्पादकं च पर्यालोच्य तदुच्छित्तये यतितव्यम् ॥ १७३ ॥
तं सुह जहा तहा ।
१ ०नां च कर्मोदयात् सञ्चितम् - पा० ।
१।६।१
॥ ३३५॥