________________
आचा०
प्रदी०
'काणियं 'ति अक्षिरोगः, स च द्विधा - गर्भगतस्योत्पद्यते जातस्य च तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेवैकाक्षिगतं काणं विधत्ते, तदेव रक्तानुगतं रकाक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्षमित्यादि ५ ।
'झिमियं 'ति जाडयता सर्वशरीरावयवानामवशित्वम् ६ ।
'कुणितं 'ति गर्भाधानदोषाद् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणिः ७ ।
'खुज्जियं' ति कुब्जं पृष्ठादावस्यास्तीति कुब्जी, मातापितृशुक्रशोणितदोषेण' गर्भस्य दोषोद्भवाः कुब्जवामनकादयो दोषा भवन्ति ८ || १३ ||
'उदरं च 'ति वातपित्तादिसमुत्यमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः, शेषास्त्वचिरोत्थिताः साध्याः ते चामी --
"पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव ।
आगन्तुकं सप्तममष्टमं तु जलोदरं चेति भवन्ति तानि ॥१॥
[
तथा 'पास मूई च'ति पश्य अवधारय मूकं मन्मनभाषिणं वा, गर्भदोपादेव जातं तदुत्तरकालं वा, पञ्चषष्टिर्मुखे रोगाः सप्तस्वायतनेषु जायन्ते तत्रायतनान्योष्ठौ दन्तमूलानि दन्ता जिह्वा तालु कण्ठः सर्वाणि च तत्राष्टावोष्ठयोः पञ्चदश
१. ० पितृशोणितशुक्रदो० - ० ।
११६।१
॥ ३३३॥