________________
श६।१
आचा प्रदी०
पद्रवान् सहमाना अपि सन्निवेश-स्थानं कर्मपरतया न त्यजन्ति । 'एवं पेगे'त्ति एवं-वृक्षोपमया एके-कर्मगुरवोऽनेकरूपेघृच्चावच्चेषु कुलेषु जाता धर्मचरणयोग्या अपि रूपेषु चक्षुरिन्द्रियानुकुलेखूपलक्षणात्शब्दादिषु च विषयेषु सक्ताः शारीरमानसदुःखदुःखिता राजोपद्रवोपद्रुताः अग्निदाहृदग्धसर्वस्वा नानानिमित्ताहिताधयो न सकलदुःखावासं गृहवासं त्यक्तुं समर्थाः, अपि तु तत्स्था एव तेषु तेषु व्यसनोपनिपातेषु सत्सु करुणं स्तनन्ति-दीनमाक्रोशन्ति, 'णिदाणतो' दुःखस्य निदानम्उपादानं कर्म ततस्ते विलपन्तोऽपि न लभन्ते मोक्षं-दुःखापगमम् ।
दुःखविमोक्षाभावे च यथा नानाव्याध्युपसृष्टाः संसारोदरे प्राणिनो वर्तन्ते तथा दर्शयितुमाह-'अह पास'त्ति अथेति वाक्योपन्यासे, पश्य त्वं तेपूच्चावच्चेषु कुलेषु आत्मत्वाय--आत्मीयकर्मानुभवनाय जाताः, तदुदयाच्चेमा अवस्थामनुभवन्तीत्याह--'गंठी'त्यादिषोडशरोगवक्तव्यतानुगतं श्लोकत्रयं, तत्र वातपित्तश्लेष्मसन्निपातजं चतुर्दा गण्डं, तदस्यास्तीति गण्डी-गण्डमालावान् १॥
तथा कुष्ठो-कुष्ठमष्टादशभेदं तदस्यास्तीति कुष्ठी २ । 'रायसीति राजांसो-राजयक्ष्मा सोऽस्यास्तीति राजांसी क्षयीत्यर्थः ३ ।
तथा 'अवमारिय'ति अपस्मारो-वातपित्तश्लेष्मसन्निपातजत्वाच्चतुर्धा, तद्वानपगतसदसद्विवेकः भ्रमर्छादिकामवस्थामनुभवति ।
REGISTRIERSIERIGKIS
३३२॥